________________
ho ho ho to s
वा
द
द्वा
त्रिं
शि
का
८/२०
Jain Education International
कथं स्यात्' ? सम्बद्धत्वाऽविशेषे हि लोकस्थाः सर्व एव ते गृह्येरन् न वा केचिदपि, अविशेषात्
‘अदृष्टविशेषान्मिताऽणुग्रहोपपत्तिर्भविष्यती 'ति चेत् ? न, अदृष्टे पुण्य-पापरूपे साङ्कर्याज्जातिरूपस्य विशेषस्याऽसिद्धेः ।
मिताऽणुग्रहार्थस्य विशेषस्य जातिरूपस्याऽदृष्टे 'कल्पनाऽपेक्षया क्रियावत्त्वरूपस्याऽऽत्मन्येव कल्पयितुं युक्तत्वात् । तत्सङ्कोच-विकोचादिकल्पनागौरवस्योत्तरकालिकत्वेनाऽबाधकत्वात्, शरीराऽवच्छिन्नपरिणामाऽनुभवस्य सार्वजनीनत्वेन प्रामाणिकत्वाच्चेति भावः । तथा (च), आत्मनः क्रियां विना नियतशरीराऽनुप्रवेशाऽनभ्युपगमे सर्वेषां शरीराणां संयोगाऽविशेषेण सर्वभोगाऽवच्छेदकत्वाऽऽपत्तिभिया तदात्मभोगे तदीयाऽदृष्टविशेषप्रयोज्यसंयोगभेदादिकल्पनाऽपि कथं युज्यते ? अनन्तसंयोगभेदादिकल्पने गौरवात् ।
अवच्छेदकतया तदात्मवृत्तिजन्यगुणत्वाऽवच्छिन्नं प्रति तादात्म्येन तच्छरीरत्वेन हेतुत्वे तु बाल्या-दिभेदेन शरीरभेदाद् व्यभिचारः । अवच्छिन्नत्वसम्बन्धेन तद्व्यक्तिविशिष्टे तद्व्यक्तित्वेन हेतुत्वे तु सुतरां गौरवमिति न किञ्चिदेतद् । अधिकं लतायाम् || १९ ।। अनित्यैकान्तपक्षेsपि हिंसादीनामसम्भवः ।
नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् ॥ २० ॥
१. हस्तादर्शे 'स्यात्' पदं नास्ति । २. मुद्रितप्रतौ 'अदृष्टक...' इति पाठः । ३. हस्तादर्शे 'तत्त्वेन' इति पाठः । सोऽपि शुद्धः ।
For Private & Personal Use Only
।।१४७।।
www.jainelibrary.org