________________
अनित्येति । अनित्यैकान्तपक्षेऽपि = क्षणिकज्ञानसन्तानरूपाऽऽत्माऽभ्युपगमेऽपि हिंसादीनामसम्भवो = मुख्यवृत्त्याऽयोगः, नाशहेतोरयोगेन = क्षयकारणस्याऽयुज्यमानत्वेन क्षणिकत्वस्य = क्षणक्षयित्वस्य साधनात् । इयं हि परेषां व्यवस्था- नाशहेतुभिर्घटादेशिस्ततो 'भिन्नोऽभिन्नो वा विधीयेत ? आये घटादेस्तादवस्थ्यम् । अन्त्ये च घटादिरेव कृतः स्यात् इति स्वभावत एवोदयाऽनन्तरं विनाशिनो भावा इति ।
इत्थं च हिंसा न केनचित्क्रियत इत्यनुपप्लवं जगत्स्यादिति भावः ।।२०।।
ननु “जनक एव हिंसकः स्यादतो न दोषः" इत्यत्र जनकः किं सन्तानस्य क्षणस्य वा इति विकल्याऽऽद्ये दोषमाह
न च सन्तानभेदस्य जनको हिंसको मतः ।
सांवृतत्वादजन्यत्वाद् भावत्वनियतं हि तत् ॥२१॥ न चेति । न च सन्तानभेदस्य हिंस्यमा शूकरक्षणसन्तानच्छेदेनोत्पत्स्यमानमनुष्यादिक्षणसन्तानस्य जनको लुब्धकादिः हिंसको (मतः) भवेत्, तद्विसदृशसन्तानोत्पादकत्वेनैव तद्धिंसकत्व-व्यवहारोपपत्तेरिति वाच्यं, सांवृतत्वात् = काल्पनिकत्वात् सन्तानभेदस्य अजन्यत्वात् = लुब्धकाद्यसाध्यत्वात् । तद्धि = जन्यत्वं हि भावत्वनियतं = सत्त्वव्याप्त, सांवृतं च खरविषाणादिवदसदेवेति भावः ।।२१।।
८/२१
।।१४८।
१. हस्तादर्श 'भिन्नो' नास्ति । २. हस्ताद” 'शूकीय...' इति पाठः । हस्तादर्शान्तरे च 'शूकिण' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org