________________
द्वितीये त्वाह
नरादिक्षणहेतुश्च शूकरादेर्न हिंसकः ।
शूकराऽन्त्यक्षणेनैव व्यभिचारप्रसङ्गतः ॥२२॥ नरादीति । नरादिक्षणहेतुश्च लुब्धकादिः शूकरादेहिँसको न भवति, 'शूकराऽन्त्यक्षणेनैव व्यभिचारस्य हिंसकत्वाऽतिव्याप्तिलक्षणस्य प्रसङ्गतः (=व्यभिचारप्रसङ्गतः) । म्रियमाणशूकराऽन्त्यक्षणोऽपि ह्युपादानभावेन नरादिक्षणहेतुरिति लुब्धकवत् सोऽपि स्वहिंसकः स्यादिति भावः ।।२२।। इष्टापत्तौ व्यभिचारपरिहारे त्वाह
अनन्तरक्षणोत्पादे बुद्ध-लुब्धकयोस्तुला ।
नैवं तद्विरतिः क्वापि ततः शास्त्राद्यसङ्गतिः ।।२३।। __ अनन्तरेति । अनन्तरक्षणोत्पादे = स्वाऽव्यवहितोत्तरविसदृशक्षणोत्पादे हिंसकत्वप्रयोजकेऽभ्युपगम्यमाने इति गम्यं, बुद्ध-लुब्धकयोः तुला = साम्यमापद्येत, बुद्ध-लुब्धकयोः । अनन्तरक्षणोत्पादकत्वाविशेषात्, एवं = उक्तप्रकारेण तद्विरतिः = हिंसाविरतिः क्वापि न स्यात्, ततः शास्त्रादीनाम् = अहिंसाप्रतिपादकशास्त्रादीनामसङ्गतिः (= शास्त्राद्यसङ्गतिः) स्यात् । न चैतदिष्टं परस्य, “सवे तसंति दंडेन सन्वेसिं जीवितं "पियं, अत्तानं उपमं १. हस्तादर्श ‘शूकार..' इत्यशुद्धः पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ३. 'सत्त्वेऽस्य संति' इत्यशुद्धः पाठो मुद्रितप्रतौ। हस्तादर्श च 'सच्चे त्र' इत्यशुद्धः पाठः। ४. मुद्रितप्रतौ 'प्रियं' इत्यशुद्धः पाठः ।
॥१४९।।
॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org