SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ _vs_d 'कत्ता नेव हन्ने न घातये" ।। ( ) इत्याद्यागमस्य परैरभ्युपगमात् ।।२३।। घटन्ते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः । एतस्या वृत्तिभूतानि तानि यद् भगवाजगौ ।।२४।। घटन्त इति । अहिंसां विना सत्यादीन्यपि (तत्त्वतः) न घटन्ते । (यद्) यत एतस्या = अहिंसाया वृत्तिभूतानि तानि = सत्यादीनि भगवान जगौ = सर्वज्ञो गदितवान् । न च सस्यादिपालनीयाऽभावे वृत्तौ विद्वान् यतत इति । ननु 'हन्मी'ति सङ्कल्प एव हिंसा, तद्योगादेव च हिंसकत्वं, तदभावाच्चाऽहिंसायास्ततश्च तद्वत्तिभतसत्यादीनां नाऽनपपत्तिरिति चेत ? न, हन्मीति सङ्कल्पक्षणस्यैव सर्वथाऽनन्वये कालान्तरभाविफलजनकत्वाऽनुपपत्तेः, | कथञ्चिदन्वये चाऽस्मत्सिद्धान्तप्रवेशाऽऽपाताच्च इति । अधिकमन्यत्र ।।२४।। मौनीन्द्रे च प्रवचने युज्यते सर्वमेव हि । नित्याऽनित्ये 'स्फुटं देहाद् भिन्नाऽभिन्ने तथाऽऽत्मनि ।।२५।। मौनीन्द्र इति । मौनीन्द्रे = वीतरागप्रतिपादिते च प्रवचने सर्वमेव हि हिंसाऽहिंसादिकं युज्यते। नित्याऽनित्ये तथा स्फुटं = प्रत्यक्षं देहाद भिन्नाऽभिन्ने आत्मनि सति । तथाहिआत्मत्वेन नित्यत्वमात्मनः प्रतीयते, अन्यथा परलोकाद्यभावप्रसङ्गात्, 'मनुष्यत्वादिना चाऽनित्यत्वं, १. हस्तादर्श स्फट' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ- 'च वचने' इति पाठः । ३. मुद्रितप्रतौ 'मनुष्यादिना' इत्यशुद्धः पाठः । ||१५०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy