________________
अन्यथा मनुष्यादिभावाऽनुच्छेदप्रसङ्गात् ।
धर्मिग्राहकमानेन तत्र नित्यत्वसिद्धावनित्यत्वधियः शरीरादिविषयकत्वमेवाऽस्त्विति चेत् ? न, धर्मिग्राहकमानेन त्रैलक्षण्यकलितस्यैव तस्य सिद्धेः, घटाधुपादानस्येव ज्ञानाद्युपादानस्य पूर्वोत्तरपर्यायनाशोत्पादाऽन्वितध्रुवत्वनियतत्वात् ।
यथा च भ्रान्तत्वाऽभ्रान्तत्वे परमार्थसंव्यवहाराऽपेक्षया परेषां न ज्ञानस्य विरुद्धे, यथा चैकत्र संयोगतदभावौ, तथा द्रव्यतो नित्यत्वं पर्यायतश्चाऽनित्यत्वं नास्माकं विरुद्धम् ।
अनपेक्षितविशिष्टरूपं हि द्रव्यं, अपेक्षितविशिष्टरूपं च पर्याय इति । तथा शरीरजीवयोर्मूर्ताऽमूर्तत्वाभ्यां भेदः, देहकण्टकादिस्पर्श वेदनोत्पत्तेश्चाऽभेद इति । तदुक्तं - "जीवसरीराणं पि हु भेआऽभेओ तहोवलंभाओ । मुत्ताऽमुत्तत्तणओ छिक्कंमि पवेयणाओ अ ।।"(हरिभद्रसूरिकृत-समरादित्यकथा भव.८/पृ.७९४)
न चेदेवं 'ब्राह्मणो नष्टो ब्राह्मणो जानाती'त्यादिव्यवहाराऽनुपपत्तिः विना ब्राह्मण्यस्य व्यासज्यवृत्तित्वमित्यादिकमुपपादितमन्यत्र ।।२५।।
'पीडाकर्तृत्वतो देहव्यापत्त्या दुष्टभावतः ।
त्रिधा हिंसा 'जिनप्रोक्ता न हीथमपहेतुका ॥२६॥ १. हस्तादर्श 'जीशरी..' इत्यशुद्धः पाठः । २. मुद्रितप्रती '...य वेय...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'ब्राह्मणस्य' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'पीडाकर्तृत्वातो' इत्यशुद्धः पाठः । ५. 'हिंसागमप्रोक्ता' इति पाठः मुद्रितप्रतौ हस्तादर्श च । परं व्याख्यानुसारेणाऽत्र 'हिंसा जिनप्रोक्ता' इति पाठः सम्यक् ।
। ।।१५१॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org