________________
वा
ho has de
द
द्वा
त्रिं
शि
का
८/२८
Jain Education International
विनाशस्तया
पीडेति । पीडाकर्तृत्वतः = पीडायां स्वतन्त्रव्यापृतत्वात् देहस्य व्यापत्तिः = 1 (=देहव्यापत्त्या) कथञ्चित्तद्व्यापत्तिसिद्धेरिति भावः, दुष्टभावतः हन्मीति सङ्क्लेशात् त्रिधा जिनप्रोक्ता हिंसा इत्थं = उक्तरूपाऽऽत्माऽभ्युपगमे न ह्यपहेतुका = हेतुरहिता भवति ।। २६ ।। अत्रैव प्रकारान्तरेणाऽसम्भवं दूषयितुमुपन्यस्य
हन्तुर्जाग्रति को दोषो हिंसनीयस्य कर्मणि ।
प्रसक्तिस्तदभावे चाऽन्यत्राऽपीति मुधा वचः ।। २७।।
हन्तुः
हन्तुरिति । " हिंसनीयस्य कर्मणि = हिंसानिमित्ताऽदृष्टे जाग्रति = लब्धवृत्तिके सति दोषः ? स्वकर्मणैव प्राणिनो हतत्वात्, तत्कर्मप्रेरितस्य च हन्तुरस्वतन्त्रत्वेनादुष्टत्वव्यवहारात् । तदभावे च = हिंसनीयकर्मविपाकाऽभावे च अन्यत्राऽपि = अहिंसनीयेऽपि प्राणिनि प्रसक्तिः हिंसापत्तिः” इति, हिंसाऽसम्भवप्रतिपादकं वचो मुधा = अनर्थकम्
।।२७।।
=
=
हिंस्यकर्मविपाके यद्दुष्टाऽऽशयनिमित्तता ।
हिंसकत्वं न तेनेदं वैद्यस्य स्याद्रिपोरिव ।। २८ ।।
=
हिंस्येति । हिंस्यस्य प्राणिनः कर्मविपाके ( = हिंस्यकर्मविपाके) सति यद् यस्मात् दुष्टाशयेन = 'हमी'ति सङ्क्लेशेन निमित्तता
प्रधानहेतुकर्मोदयसाध्यां हिंसा प्रति
१. मुद्रितप्रती 'सिद्धिरिति ......' पाठः ।
=
For Private & Personal Use Only
।।१५२।
www.jainelibrary.org