________________
।। निमित्तभावो (= दुष्टाशयनिमित्तता) हिंसकत्वम्। तेन 'कारणेन इदं हिंसकत्वं रिपोरिव वैद्यस्य न स्यात्, तस्य हिंसां प्रति निमित्तभावेऽपि दुष्टाऽऽशयाऽनात्तत्वात् । तदिदमाह
"हिंस्यकर्मविपाकेऽपि निमित्तत्वनियोगतः ।
हिंसकस्य भवेदेषा दुष्टा दुष्टाऽनुबन्धतः"।। (अष्टक-१६/३) परप्रेरितस्याऽपि चाऽभिमरादेरिव दुष्टत्वं व्यपदिश्यत एव । हिंस्यकर्मनिर्जरणसहायत्वेऽपि च तथाविधाऽऽशयाऽभावान्न हिंसकस्य वैयावृत्त्यकरत्वव्यपदेश इति द्रष्टव्यम् ।।२८।।
इत्थं सदुपदेशादेस्तन्निवृत्तिरपि स्फुटा ।
सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः ।।२९।।
इत्थमिति । इत्थं = परिणामिन्यात्मनि हिंसोपपत्तौ सतां = ज्ञानगुरूणामुपदेशादेः ८/२९
(=सदुपदेशादेः) आदिनाऽभ्युत्थानादिपरिग्रहः, तदाह → अब्भुट्टाणे विणए परक्कमे साहुसेवणाए य । सम्मइंसणलंभो विरयाविरईइ विरईए ।। - (आ.नि.८४८) ___सोपक्रमस्य = अपवर्तनीयस्य पापस्य = चारित्रमोहनीयस्य नाशात् तन्निवृत्तिरपि = हिंसानिवृत्तिरपि स्फुटा = प्रकटा, स्वाशयस्य = शुभाऽऽशयस्य ‘न कमपि हन्मी'त्याकारस्य वृद्धितः = अनुबन्धात् (=स्वाशयवृद्धितः) ।।२९।।
||१५३॥
१. हस्तादर्श 'कारणत्वे' इत्यशुद्धः पाठः । २. हस्तादर्श 'हिंसकत्वं' पदं नास्ति। ३. हस्ताद” 'दुष्टाशयेना...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'त्वं व्यपदिश्यत' इति पाठान्तरम् ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org