SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ vote तथारुच्या' प्रवृत्त्या च व्यज्यते कर्म तादृशम् । संशयं जानता ज्ञातः संसार इति हि स्थितिः ॥३०।। तथारुच्येति । तथारुच्या = सदाचारश्रद्धया प्रवृत्त्या च तादृशं = स्वप्रयत्नोपक्रमणीयं कर्म व्यज्यते । 'प्रवृत्तिरेवोपक्रमणीयकर्माऽनिश्चयादुपायसंशये कथं स्याद्' इति चेत् ? अर्थाऽनर्थसंशययोः प्रवृत्ति-निवृत्त्यङ्गत्वाद् इत्याशयवानाह- संशयं अर्थाऽनर्थगतं जानता हेयोपादेयनिवृत्तिप्रवृत्तिभ्यां परमार्थतः संसारो ज्ञात इति हि स्थितिः = प्रेक्षावतां मर्यादा । तथा चाचारसूत्रं- 'संसयं परिजाणतो संसारे परिन्नाते भवति, संसयं अपरिजाणतो संसारे अपरिन्नाते भवतीति (आचा.१/५/१/सू.१४४) ।।३० ।। अपवर्गतरोर्बीजं मुख्याऽहिंसेयमुच्यते । सत्यादीनि व्रतान्यत्र जायन्ते पल्लवा नवाः ॥३१॥ अपवर्गेति । स्पष्टः ।।३१।। विषयो धर्मवादस्य निरस्य मतिकर्दमम् । संशोध्यः स्वाशयादित्थं परमानन्दमिच्छता ॥३२॥ १. 'रुचि' इति मुद्रितप्रतौ हस्तप्रतौ च पाठः । व्याख्यानुसारेण 'रुच्या' इति सम्यगाभाति । २. 'श्रुतिः' इति मुद्रितप्रती हस्तादर्श च पाठः । व्याख्यानुसारेणात्र 'स्थितिः' इति पदेन भाव्यम् । ||१५४।। Jain Education Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy