________________
विषय इति । मतिकर्दमं आदावेव प्रमाणलक्षणप्रणयनादिप्रपञ्चम् ।।३२।।
।। इति वादद्वात्रिंशिका ।।८।।
।। अथ कथाद्वात्रिंशिका ॥९॥ वादनिरूपणाऽनन्तरं तत्सजातीया कथा निरूप्यते -
अर्थ-कामकथा धर्मकथा मिश्रकथा तथा ।
कथा चतुर्विधा तत्र प्रथमा यत्र वर्ण्यते ॥१॥ ___ अर्थेति । अर्थकथा कामकथा (=अर्थकामकथा) धर्मकथा तथा मिश्रकथा एवं चतुर्विधा || कथा । तत्र प्रथमा = अर्थकथा सा यत्र = यस्यां वर्ण्यते = प्रतिपाद्यते ।।१।।
विद्या शिल्पमुपायश्चानिर्वेदश्चापि सञ्चयः।
दक्षत्वं साम भेदश्च दण्डो दानं च यत्नतः।।२।। विद्येति । विद्यादयोऽर्थोपाया 'यत्र वर्ण्यन्ते सार्थकथेति भावः ।।२।।
रूपं वयश्च वेषश्च दाक्षिण्यं चापि शिक्षितम् ।
दृष्टं श्रुतं चानुभूतं द्वितीयायां च संस्तवः ।।३।। १. हस्तादर्श 'इति वादद्वात्रिंशिका ||८||' इति नास्ति । २. हस्तादर्श ....जाया' इति त्रुटितोऽशुद्धश्च पाठः । ३. हस्तादर्श '...द्यतो' इत्यशुद्धः पाठः । ४. हस्तादर्श 'यत्र' पदं नास्ति ।
॥१५५।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org