________________
रूपमिति । रूपं सुन्दरं, वयश्च = उदग्रं, वेषश्च = उज्ज्वलः, दाक्षिण्यं च = मार्दवं, शिक्षितमपि विषयेषु, दृष्टं 'अद्भुतदर्शनमाश्रित्य, श्रुतं चानुभूतं च, संस्तवश्च = परिचयश्च, द्वितीयायां = कामकथायाम् । रूपादिवर्णनप्रधाना कामकथेत्यर्थः ।।३।।
तृतीयाऽऽक्षेपणी चैका तथा विक्षेपणी परा ।।
अन्या संवेजनी निजनी चेति चतुर्विधा ॥४॥ तृतीयेति । तृतीया धर्मकथा च एका आक्षेपणी, तथा परा विक्षेपणी, अन्या संवेजनी, च = पुनः निर्वेजनी इति चतुर्विधा ।।४।।
आचाराद् व्यवहाराच्च प्रज्ञप्तेदृष्टिवादतः।
आद्या चतुर्विधा श्रोतुश्चित्ताऽऽक्षेपस्य कारणम् ।।५।। आचारादिति । आचारं व्यवहारं प्रज्ञप्तिं दृष्टिवादं चाश्रित्य आद्या = आक्षेपणी चतुर्विधा। श्रोतुः चित्ताऽऽक्षेपस्य तत्त्वप्रतिपत्त्याऽऽभिमुख्यलक्षणस्य अपूर्वशमरसवर्णिकास्वादलक्षणस्य वा कारणम् ।।५।।
क्रिया दोषव्यपोहश्च सन्दिग्धे साधु बोधनम् ।
श्रोतुः सूक्ष्मोक्तिराचारादयो ग्रन्थान् परे जगुः ।।६।। १. हस्तादर्श अद्भुट्ठ' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ '...मुखल...' इत्यशुद्धः पाठः ।
।।१५६।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org