SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ क्रियेति । क्रिया लोचाऽस्नानादिका। दोषव्यपोहश्च कथञ्चिदापन्नदोषशुद्ध्यर्थप्रायश्चित्तलक्षणः। सन्दिग्धे संशयाऽऽपन्नेऽर्थे साधु मधुराऽऽलापपूर्व बोधनं = उत्तरप्रदानम् । श्रोतुः सूक्ष्मोक्तिः सूक्ष्मजीवादिभावकथनम् । आचारादयः क्रमेणाऽऽचार-व्यवहार-प्रज्ञप्ति-दृष्टिवादा अभिधीयन्ते । परे आचार्या आचारादीन् ग्रन्थान् जगुः तैराचाराद्यभिधानादिति भावः ।।६।। एतैः प्रज्ञापितः श्रोता चित्रस्थ इव जायते । दिव्यास्त्रवन्न हि क्वापि मोघाः स्युः सुधियां गिरः ।।७।। एतैरिति । व्यक्तः ।।७।। विद्या क्रिया तपो वीर्यं तथा समितिगुप्तयः । आक्षेपणीकल्पवल्ल्या मकरन्द उदाहृतः ।।८।। विद्येति । विद्या ज्ञानमत्यन्ताऽपकारिभावतमोभेदकं क्रिया = चारित्रं तपः अनशनादि वीर्य = कर्मशत्रुविजयानुकूलः पराक्रमः तथा समितय ईर्यासमित्याद्याः गुप्तयो मनोगुप्त्याद्याः (= समिति-गुप्तयः) आक्षेपणीकल्पवल्ल्या मकरन्दो = रस उदाहृतः । विद्यादिबहुमानजननेनैवेयं फलवतीति भावः ।।८।। स्वपरश्रुत मिथ्यान्यवादोक्त्या सङ्क्रमोत्क्रमम् । १. हस्तादर्श 'स्नानादि....' इति पाठः । २. 'श्रुति' इति हस्तादर्श पाठः । ||१५७। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy