________________
सा
धु
9 hots s
सा
म
ग्य
द्वा
त्रिं
शि
का
६/२३
Jain Education International
अनिच्छा ह्यत्र संसारे स्वेच्छालाभादनुत्कटा ।
नैर्गुण्यदृष्टिजं द्वेषं विना चित्ताङ्गखेदकृत् ।। २२ ।।
अनिच्छेति । अत्र हि = वैराग्ये सति ( स्वेच्छाऽलाभात् ) संसारे = विषयसुखे अनिच्छा = इच्छाऽभावलक्षणाऽऽत्मपरिणतिः नैर्गुण्यदृष्टिजं = संसारस्य 'बलवदनिष्टसाधनत्वप्रतिसन्धानजं द्वेषं विनाऽनुत्कटा । अत एव ( चित्ताङ्गखेदकृत् = ) चित्ताङ्गयोः खेदकृत् शारीरदुःखोत्पादिका । इच्छाविच्छेदो हि द्विधा स्याद्- अलभ्यविषयत्वज्ञानाद्, द्वेषाच्च । आद्य इष्टाऽप्राप्तिज्ञानाद् दुःखजनकः, अन्त्यश्च न तथेति ।। २२ ।।
= मानस
एकान्तात्मग्रहोद्भूतभवनैर्गुण्यदर्शनात् ।
शान्तस्यापि द्वितीयं सज्ज्वराऽनुद्भवसन्निभम् ।। २३ ।।
एकान्तेति । एकान्तः = सर्वथा सन् क्षयी वा य आत्मा तस्य ग्रहादुत्पन्नं यद् भवनैर्गुण्यदर्शनं ततः (=एकान्तात्मग्रहोद्भूतभवनैर्गुण्यदर्शनात् ) शान्तस्याऽपि = प्रशमवतोऽपि लोकदृष्ट्या, द्वितीयं = मोहाऽन्वितं वैराग्यं भवति ।
एतच्च सन् शक्त्याऽवस्थितो यो ज्वरस्तस्या अनुदयः ( ?द्भवः) वेलाप्राक्काललक्षणः तत्सन्निभं (=सज्ज्वराऽनुद्भवसन्निभम् ) । तेषां भवे द्वेषजनितस्य वैराग्यस्योत्कटत्वेऽपि १. हस्तादर्शे 'बलद...' इत्यशुद्धः पाठः । २ हस्तादर्शे 'सन्त' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'ज्वरासन्निभं ' इति त्रुटितः पाठः । ४. मुद्रितप्रतौ 'भवेत्, द्वेषजनि...' इति पाठः । स चाशुद्धः ।
For Private & Personal Use Only
॥१०५॥
www.jainelibrary.org