________________
।। मिथ्याज्ञानवासनाऽविच्छेदादपायप्रतिपातशक्तिसमन्वितत्वात् ।।२३।।
स्याद्वादविद्यया ज्ञात्वा बद्धानां कष्टमङ्गिनाम् ।
तृतीयं भवभीभाजां मोक्षोपायप्रवृत्तिमत्' ।।२४।। ___स्याद्वादेति । स्याद्वादस्य = सकलनयसमूहात्मकवचनस्य विद्यया ( स्याद्वादविद्यया) बद्धानामगिनां कष्टं = दुःखं ज्ञात्वा भवभीभाजां = संसारभयवतां तृतीयं = ज्ञानाऽन्वितं वैराग्यं भवति । तच्च मोक्षोपाये त्रिरत्नसाम्राज्यलक्षणे प्रवृत्तिमत् = प्रकृष्टवृत्त्युपहितम् (=मोक्षोपायप्रवृत्तिमत्) ।।२४।।
सामग्र्यं स्यादनेनैव द्वयोस्तु स्वोपमर्दतः ।
अत्राऽङ्गत्वं कदाचित्स्याद् गुणवत्पारतन्त्र्यतः ।।२५।। सामग्र्यमिति । अनेनैव = ज्ञानाऽन्वितवैराग्येणैव सामग्र्यं सर्वथा दुःखोच्छेदलक्षणं स्यात्, 'ज्ञानसहितवैराग्यस्यापायशक्तिप्रतिबन्धकत्वात् । द्वयोस्तु = दुःख-मोहाऽन्वितवैराग्ययोः स्वोपमर्दतः = स्वविनाशद्वारा अत्र = ज्ञानान्वितवैराग्ये अङ्गत्वं = उपकारकत्वं कदाचित् = शुभोदयदशायां स्यात्, गुणवतः पारतन्त्र्यं = आज्ञावशवृत्तित्वं ततः (=गुणवत्पारतन्त्र्यतः), ज्ञानवत्पारतन्त्र्यस्याऽपि फलतो ज्ञानत्वात् ।।२५।।। ___ ननु गुणवत्पारतन्त्र्यं विनापि भावशुद्ध्या वैराग्यसाफल्यं भविष्यतीत्यत आह१. मुद्रितप्रती 'वृद्धिमत्' इत्यशुद्धः पाठः । २. हस्तादर्श 'ज्ञानहित...' इति त्रुटितः पाठः ।
।।१०६।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org