________________
सा
धु
सा
म
ग्य
द्वा
hast
त्रिं
शि
का
६/२७
Jain Education International
भावशुद्धिरपि न्याय्या न मार्गाऽननुसारिणी ।
अप्रज्ञाप्यस्य बालस्य विनैतत्स्वाग्रहात्मिका ।।२६।।
भावेति । भावशुद्धिरपि = यम-नियमादिना मनसोऽसङिक्लश्यमानताऽपि एतत् गुणवत्पारतन्त्र्यं विना अप्रज्ञाप्यस्य = गीतार्थोपदेशाऽवधारणयोग्यतारहितस्य बालस्य = अज्ञानिनः स्वाग्रहात्मिका • शास्त्रश्रद्धाऽधिकस्वकल्पनाऽभिनिवेशमयी मार्गः = विशिष्टगुणस्थानाऽवाप्तिप्रवणः स्वरस - वाही जीवपरिणामस्तदननुसारिणी ( = मार्गाननुसारिणी)
=
न न्याय्या । यदाह
भावशुद्धिरपि ज्ञेया यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियात्यर्थं न पुनः स्वाग्रहात्मिका ।। रागो द्वेषश्च मोहश्च भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो हन्तोत्कर्षोऽस्य तत्त्वतः ।। तथोत्कृष्टे च सत्यस्मिन्शुद्धिर्वै शब्दमात्रकम् । स्वबुद्धिकल्पनांशिल्पिनिर्मितं नाऽर्थवद् भवेत् ।। ( अष्टक - २२ / १-२-३ ) ।। २६ ।। मोहानुत्कर्षकृच्चैतदत एवाऽपि शास्त्रवित् । क्षमाश्रमणहस्तेनेत्याह सर्वेषु कर्मसु ।। २७ ।।
मोहेति । एतद् = गुणवत्पारतन्त्र्यं च मोहानुत्कर्षकृत् = स्वाऽऽग्रहहेतुमोहापकर्षनिबन्धनं, १. हस्तादर्शे 'ग्रहात्मका' इति पाठः । २ हस्तादर्शे 'विप्रज्ञा..' इति त्रुटितः पाठः । ... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे द्विरुक्तः । ३. हस्तादर्श शल्य...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
=
।। १०७ ।।
www.jainelibrary.org