SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तदाह- न मोहोद्रिक्तताऽभावे स्वाग्रहो जायते क्वचित्। गुणवत्पारतन्त्र्यं हि तदनुत्कर्षसाधनम्।। (अ.२२/४) अत एव = गुणवत्पारतन्त्र्यस्य मोहाऽनुत्कर्षकृत्त्वादेव शास्त्रविदपि = आगमज्ञोऽपि सर्वेषु कर्मसु = दीक्षादानोद्देशसमुद्देशादिषु 'क्षमाश्रमणहस्तेने'त्याह । इत्थमभिलापस्य भावतो गुणपारतन्त्र्यहेतुत्वात्, तस्य च मोहापकर्षद्वाराऽतिचारशोधकत्वात् । तदाह- __अत एवाऽऽगमज्ञोऽपि दीक्षादानादिषु ध्रुवम् । क्षमाश्रमणहस्तेनेत्याह सर्वेषु कर्मसु ।। (अष्टक-२२/५) ।।२७ ।। यस्तु नाऽन्यगुणान् वेद न वा स्वगुणदोषवित् । स एवैतन्नाद्रियते न त्वासन्नमहोदयः ।।२८।। यस्त्विति । व्यक्तः ।।२८।। गुणवबहुमानाद्यः कुर्यात्प्रवचनोन्नतिम् । अन्येषां दर्शनोत्पत्तेस्तस्य स्यादुन्नतिः परा ॥२९॥ गुणवदिति । गुणवतां = ज्ञानादिगुणशालिनां बहुमानाद् (=गुणवद्बहुमानाद्) यः प्रवचनस्योन्नतिं = बहुजनश्लाघां (=प्रवचनोन्नति) कुर्यात्तस्य स्वतः अन्येषां दर्शनोत्पत्तेः परा तीर्थकरत्वादिलक्षणा उन्नतिः स्यात्, कारणाऽनुरूपत्वात्कार्यस्य । तदाहयस्तून्नतौ यथाशक्ति सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह तदेवाप्नोत्यनुत्तमम् ।। १. हस्तादर्श ...नुत्तरम्' इति पाठः । ६/२९ ||१०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy