________________
EFo
।। प्रक्षीणतीव्रसङ्क्लेशं प्रशमादिगुणान्वितम् । निमित्तं सर्वसौख्यानां तथा सिद्धिसुखाऽऽवहम् ।।
(अष्टक २३/३-४) ।।२९।। यस्तु शासनमालिन्येऽनाभोगेनाऽपि वर्तते ।
बध्नाति स तु मिथ्यात्वं महाऽनर्थनिबन्धनम् ।।३०।। यस्त्विति । यस्तु शासनमालिन्ये = लोकविरुद्ध-गुणवन्निन्दादिना प्रवचनोपघाते अनाभोगेनाऽपि = अज्ञानेनाऽपि वर्तते स तु शासनमालिन्योत्पादनाऽवसर एव मिथ्यात्वोदयाद् महाऽनर्थनिबन्धनं = दुरन्तसंसारकान्तारपरिभ्रमणकारणं मिथ्यात्वं बध्नाति । यदाह - यः शासनस्य मालिन्येऽनाभोगेनापि वर्तते । स तन्मिथ्यात्वहेतुत्वादन्येषां प्राणिनां ध्रुवम्।। बध्नात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थनिबन्धनम् ।।
(अष्टक-२३/१-२)।।३०।। स्वेच्छाचारे च बालानां मालिन्यं मार्गबाधया ।
गुणानां तेन सामग्र्यं गुणवत्पारतन्त्र्यतः ।।३१।। स्वेच्छेति । बालानां = अज्ञानिनां स्वेच्छाचारे च सति (मार्गबाधया=) मार्गस्य बाधया = 'अप्रधानपुरुषोऽयं जैनानां मार्गः' इत्येवं जनप्रवादरूपया मालिन्यं भवति मार्गस्य, तेन हेतुना गुणवत्पारतन्त्र्यत एव गुणानां = ज्ञानादीनां सामग्र्यं = पूर्णत्वं भवति ।।३१।।
॥१०९।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org