________________
ध
व्य
व
स्था
ho to be
द्वा
त्रिं
शि
का
७/२
Jain Education International
इत्थं विज्ञाय मतिमान् यतिर्गीतार्थसङ्गकृत् । त्रिधा शुद्ध्याऽऽचरन् धर्मं परमानन्दमश्नुते ।। ३२ ।। इति साधुसामग्र्यद्वात्रिंशिका || ६ ||
।। अथ धर्मव्यवस्थाद्वात्रिंशिका ।।७।। साधुसामग्र्यं धर्मव्यवस्थया निर्वाह्यत इतीयमत्राऽभिधीयतेभक्ष्याभक्ष्यविवेकाच्च गम्याऽगम्यविवेकतः । तपो दयाविशेषाच्च स धर्मो व्यवतिष्ठते ॥ १ ॥ भक्ष्येति । स्पष्टः ।। १ ।।
भक्ष्यं मांसमपि प्राह कश्चित्प्राण्यङ्गभावतः । ओदनादिवदित्येवमनुमानपुरःसरम् ।।२।।
भक्ष्यमिति । मांसादिकमभक्ष्यमोदनादिकं च भक्ष्यमिति सकलशिष्टजनप्रसिद्धा व्यवस्था । तत्र कश्चित् = सौगतो मांसमपि भक्ष्यं प्राण्यङ्गभावत: ' = प्राण्यङ्गत्वात् । न चायमसिद्धो हेतुः, मांसस्य प्राण्यङ्गतायाः प्रत्यक्षसिद्धत्वात्, ओदनादिवत् । न चाऽत्र दृष्टान्ते हेतु - वैकल्यं, ओदन-स्यैकेन्द्रियप्राण्यङ्गत्वेन प्रतीतत्वात्' इत्येवमनुमानपुरःसरं प्राह || २ || १. मुद्रितप्रतौ 'व्यक्त' इति पाठ: । १. हस्तादर्शे 'भाव' इत्यशुद्धः पाठः ।
For Private Personal Use Only
।।११० ।
www.jainelibrary.org