SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ र्म कठिts व्य स्था द्वा त्रिं शि का ७/४ Jain Education International स्वतन्त्रसाधनत्वेऽदोऽयुक्तं दृष्टान्तदोषतः । प्रसङ्गसाधनत्वेऽपि बाधकत्वाद् व्यवस्थितेः । । ३ । स्वतन्त्रेति । अदः = सौगतोक्तमेतदनुमानं स्वतन्त्रसाधनत्वे दृष्टान्तदोषतः = दृष्टान्तस्य साधनवैकल्याद् अयुक्तं, 'वनस्पत्याद्येकेन्द्रियाणां बौद्धस्य प्राणित्वेनाऽसिद्धत्वात् । प्रसङ्गसाधनत्वेऽपि = विकल्पसिद्धदृष्टान्ताद्युपादानेन परमतदूषणमात्रपर्यवसितहेतुत्वेऽपि अदोऽयुक्तं, व्यवस्थितेः = लोकाऽऽगमसिद्ध-भक्ष्याऽभक्ष्यव्यवस्थाया बाधकत्वात्, प्राण्यङ्गत्वमात्रस्य भक्ष्यत्वाप्रयोजकत्वात् । न हि शक्यभक्षणकत्वमेव भक्ष्यत्वं, किं त्वधर्माऽजनकभक्षणकत्वं तत्र च व्यवस्था प्रयोजिकेति । तदाह भक्ष्याभक्ष्यव्यवस्थेह शास्त्र - लोकनिबन्धना । सर्वैव भावतो यस्मात्तस्मादेतदसाम्प्रतम् ।। (अष्टक - १७/ २ ) । । ३ । । इत्थञ्चैतदभ्युपेयं, यतःव्यवस्थितं हि गोः पेयं क्षीरादि रुधिरादि न । न्यायोऽत्राप्येष नो चेत्स्याद् भिक्षुमांसादिकं तथा ॥ ४ ॥ व्यवस्थितमिति । व्यवस्थितं हि 'गोः क्षीरादि पेयं, रुधिरादि न' । न हि गवाङ्गत्वाऽविशेषादुभयोरविशेषः । एष न्यायोऽत्राऽपि = अधिकृतेऽप्यवतरति, प्राण्यङ्गत्वेऽप्योदनादेर्भक्ष्यत्वस्य मांसा - देश्चाभक्ष्यत्वस्य व्यवस्थितत्वात् । तदुक्तं - - १. हस्तादर्शे 'वनस्पाद्ये...' इति त्रुटितः पाठः । २ मुद्रितप्रती 'न' पदं नास्ति । For Private & Personal Use Only ।।१११ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy