________________
र्म
कठिts
व्य
स्था
द्वा
त्रिं
शि
का
७/४
Jain Education International
स्वतन्त्रसाधनत्वेऽदोऽयुक्तं दृष्टान्तदोषतः ।
प्रसङ्गसाधनत्वेऽपि बाधकत्वाद् व्यवस्थितेः । । ३ ।
स्वतन्त्रेति । अदः = सौगतोक्तमेतदनुमानं स्वतन्त्रसाधनत्वे दृष्टान्तदोषतः = दृष्टान्तस्य साधनवैकल्याद् अयुक्तं, 'वनस्पत्याद्येकेन्द्रियाणां बौद्धस्य प्राणित्वेनाऽसिद्धत्वात् । प्रसङ्गसाधनत्वेऽपि = विकल्पसिद्धदृष्टान्ताद्युपादानेन परमतदूषणमात्रपर्यवसितहेतुत्वेऽपि अदोऽयुक्तं, व्यवस्थितेः = लोकाऽऽगमसिद्ध-भक्ष्याऽभक्ष्यव्यवस्थाया बाधकत्वात्, प्राण्यङ्गत्वमात्रस्य भक्ष्यत्वाप्रयोजकत्वात् । न हि शक्यभक्षणकत्वमेव भक्ष्यत्वं, किं त्वधर्माऽजनकभक्षणकत्वं तत्र च व्यवस्था प्रयोजिकेति । तदाह
भक्ष्याभक्ष्यव्यवस्थेह शास्त्र - लोकनिबन्धना ।
सर्वैव भावतो यस्मात्तस्मादेतदसाम्प्रतम् ।। (अष्टक - १७/ २ ) । । ३ । । इत्थञ्चैतदभ्युपेयं, यतःव्यवस्थितं हि गोः पेयं क्षीरादि रुधिरादि न ।
न्यायोऽत्राप्येष नो चेत्स्याद् भिक्षुमांसादिकं तथा ॥ ४ ॥
व्यवस्थितमिति । व्यवस्थितं हि 'गोः क्षीरादि पेयं, रुधिरादि न' । न हि गवाङ्गत्वाऽविशेषादुभयोरविशेषः । एष न्यायोऽत्राऽपि = अधिकृतेऽप्यवतरति, प्राण्यङ्गत्वेऽप्योदनादेर्भक्ष्यत्वस्य मांसा - देश्चाभक्ष्यत्वस्य व्यवस्थितत्वात् । तदुक्तं -
-
१. हस्तादर्शे 'वनस्पाद्ये...' इति त्रुटितः पाठः । २ मुद्रितप्रती 'न' पदं नास्ति ।
For Private & Personal Use Only
।।१११ ।।
www.jainelibrary.org