________________
'तत्र प्राण्यङ्गमप्येकं भक्ष्यमन्यत्तु नो तथा । सिद्धं गवादिसत्क्षीर-रुधिरादौ तथेक्षणात्'।। (अष्टक-१७/३) । नो चेत्- यदि च नैवमभ्युपगम्यते तदा तव •भिक्षुमांसादिकं तथा = भक्ष्यं स्यात्, प्राण्यङ्गत्वाऽविशेषात् ।। तदाह- भिक्षुमांसनिषेधोऽपि न चैवं युज्यते क्वचित् ।।
अस्थ्याद्यपि च भक्ष्यं स्यात्प्राण्यङ्गत्वाऽविशेषतः।। (अष्टक-१७/५) । किं चैवं स्त्रीत्वसाम्याज्जाया-जनन्योरप्यविशेषेण गम्यत्वप्रसङ्ग इति नाऽयमन्मत्तप्रलापो विदुषां सदसि शोभते । यदाह- एतावन्मात्रसाम्येन प्रवृत्तिर्यदि चेष्यते । जायायां स्वजनन्यां च स्त्रीत्वात्तुल्यैव साऽस्तु ते ।। (अष्टक-१७/६) 'मण्डलतन्त्रवादिनोऽत्राऽपीष्टाऽऽपत्तिरेवे'ति चेत् ? तन्मतं बहुधाऽन्यत्र निराकृतं, लेशतश्चाग्रे निराकरिष्यामः ।।४।।
अपि च प्रसङ्गसाधनं पराऽभ्युपगमाऽनुसारेण भवति, न चास्माकं प्राण्यङ्गत्वेन मांसम-भक्ष्यमित्यभ्युपगमः', किं तु जीवोत्पत्त्याश्रयत्वादिति दर्शयन्नाह
प्राण्यङ्गत्वादभक्ष्यत्वं न हि मांसे मतं च नः ।
जीवसंसक्तिहेतुत्वात् किन्तु तद् गर्हितं बुधैः ।।५।। प्राण्यङ्गत्वादिति । न हि नः = अस्माकं प्राण्यङ्गत्वान्मांसेऽभक्ष्यत्वं च मतं, ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. हस्तादर्श 'अभ्युपगमः' पदं नास्ति । २. हस्तादर्श 'च'
११२।
नास्ति ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org