________________
किन्तु जीवसंसक्तिहेतुत्वात् तत् = मांसं बुधैः = बहुश्रुतैः गर्हितं = निषिद्धम् ।।५।। ।। तथाहि
पच्यमानाऽऽम-पक्वासु मांसपेशीषु सर्वथा।
'तन्त्रे निगोदजीवानामुत्पत्तिर्भणिता जिनैः ।।६।। पच्यमानेति । एतदर्थसंवादिनी चेयं गाथाआमासु य पक्कासु य विपच्चमाणासु मंसपेसीसु । आयंतियमुववाओ भणिओ अ निगोअजीवाणं ।। (सम्बोधप्रकरण-७/५५) ।।६।। ननु भवतामेव क्वचिदागमे मांसभक्ष्यताऽपि श्रूयते इति पूर्वाऽपरविरोध इत्याशङ्क्याह
सूत्राणि कानिचिच्छेदोपभोगादिपराणि तु ।
अमद्यमांसाऽशितया न हन्यन्ते प्रसिद्धया ।।७।। सूत्राणीति । कानिचित्तु सूत्राणि छेदः = छेदसूत्रोक्तप्रायश्चित्तौपयिकार्थविशेषः, उपभोगश्च बहि:-परिभोगः, आदिनाऽत्यन्ताऽपवादादिग्रहः, तत्पराणि (= छेदोपभोगादिपराणि तु) प्रसिद्धयाऽमद्यमांसाशितया साधोः (न हन्यन्ते=) न विरुध्यन्ते, उत्सर्गतो मांसभक्षणस्य दुष्टत्वादेवेति भावः।
||११३। १. हस्तादर्श तन्त्रो' इत्यशुद्धः पाठः । २. आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपातो भणितो निगोदजीवानाम् ।। ३. हस्तादर्श 'सूति' इति त्रुटितः पाठः । हस्तादर्शान्तरे च 'सूत्राणीति' इति नास्ति ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org