SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ शुद्धिमतः = मनोवाक्कायशुद्धस्य साधोः ग्रहे = ग्रहणे को दोषः, आरम्भप्रत्याख्यानस्य लेशतोऽप्यव्याघातात् इति चेत् ? ज्ञाते = 'मदर्थं 'कृतोऽयं पिण्डः' इति ज्ञाते सति तद्ग्रहणे प्रसङ्गात् गृहिणः पुनः तथाप्रवृत्तिलक्षणात् पापवृद्धितः, तन्निमित्तभावस्य परिहार्यत्वात् ।।१९।। यत्यर्थं गृहिणश्चेष्टा प्राण्यारम्भप्रयोजिका । यतेस्तद्वर्जनोपायहीना सामग्र्यघातिनी ॥२०॥ यत्यर्थमिति । यत्यर्थं गृहिणः प्राण्यारम्भप्रयोजिका चेष्टा = निष्ठितक्रिया तद्वर्जनोपायैराधाकर्मिककुलपरित्यागादिलक्षणेींना सती (=तद्वर्जनोपायहीना) यतेः सामग्र्यघातिनी = गुणश्रेणीहानिक: ।।२०।। वैराग्यं च स्मृतं दुःख-मोह-ज्ञानान्वितं त्रिधा । आर्तध्यानाख्यमाद्यं स्याद्यथाशक्त्यप्रवृत्तितः।।२१।। __ वैराग्यं चेति । दुःखान्वितं मोहान्वितं ज्ञानान्वितं' चेति (=दुःख-मोह-ज्ञानान्वितं) त्रिधा वैराग्यं स्मृतम् । आद्यं = दुःखान्वितं आर्त्तध्यानाख्यं स्यात्, यथाशक्ति = शक्त्यनुसारेण मुक्त्युपाये तः । तात्त्विकं तु वैराग्यं शक्तिमतिक्रम्याऽपि श्रद्धातिशयेन प्रवृत्तिं जनयेदिति ।।२१।। १. मुद्रितप्रतौ 'कुतो' इत्यशुद्धः पाठ । २. हस्तादर्श 'इति' पदं नास्ति । ३. मुद्रितप्रती ....न्वित' इत्यशुद्धः पाठः । ६/२१ ।।१०४। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy