________________
प्राय एवमलाभः स्यादिति चेद् ? बहुधाऽप्ययम् ।
सम्भवीत्यत एवोक्तो यतिधर्मोऽतिदुष्करः ॥१८॥ प्राय इति । एवं = असङ्कल्पितस्यैव पिण्डस्य 'ग्राह्यत्वे प्रायोऽलाभः स्यात् = शुद्धपिण्डाऽप्राप्तिः स्याद् इति चेत् ? बहुधाऽपि = सङ्कल्पाऽतिरिक्तैर्बहुभिरपि प्रकारैः शङ्कितम्रक्षिताभिः अयं = अलाभः सम्भवी, अथवा- एवं प्रायोऽसङ्कल्पितस्याऽलाभः स्यादिति चेत् ?
बहुधाप्ययमसङ्कल्पितस्य लाभः सम्भवी, आदित्सूनां भिक्षूणामभावेऽपि च बहूनां पाकस्योपलब्धेः ।
तथापि तद्वत्तेर्दुष्करत्वात्तत्प्रणेतुरनाप्तता स्यादित्यत आह- इत्यत एव यतिधर्मो मूलोत्तरगुणसमुदायरूपोऽतिदुष्कर उक्तः, अतिदुर्लभं मोक्षं प्रत्यतिदुष्करस्यैव धर्मस्य हेतुत्वात्, कार्याऽनुरूपकारणवचनेनैवाऽऽप्तत्वसिद्धेः ।।१८।।
सङ्कल्पितस्य गृहिणा त्रिधा शुद्धिमतो ग्रहे ।
को दोष इति चेज्ज्ञाते प्रसङ्गात्पापवृद्धितः ।।१९।। सङ्कल्पितस्येति । गृहिणा = गृहस्थेन सङ्कल्पितस्य = यत्यर्थं प्रदित्सितस्य त्रिधा ||१०३। १. हस्तादर्श 'ग्राह्यत्व प्रा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘अदित्सू...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'प्रतिदि...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org