________________
सा
धु
सा
म
ग्य
द्वा
d
शि
का
६/१७
Jain Education International
स्वोचिते तु तदारम्भे निष्ठिते नाऽविशुद्धिमत् । तदर्थकृतिनिष्ठाभ्यां चतुर्भङ्ग्या द्वयोर्ग्रहात् ।। १७ ।।
स्वचित्विति । स्वोचिते तु = स्वशरीर - कुटुम्बादेर्योग्ये तु आरम्भे = पाकप्रयत्ने निष्ठित्' = चरमेन्धनप्रक्षेपेणौदनसिद्ध्युपहिते तत् = स्वभोग्याऽतिरिक्तपाकशून्यतया सङ्कल्पनम्, ‘स्वार्थमुपकल्पितमन्नमितो मुनीनामुचितेन दानेनाऽऽत्मानं कृतार्थयिष्यामी 'त्याकारं नाऽविशुद्धिमत् = न दोषाऽन्वितम् । तदर्थं = साध्वर्थं कृतिः = आद्यपाकः निष्ठा च चरमपाकः, ताभ्यां (=तदर्थकृति-निष्ठाभ्यां)निष्पन्नायां चतुर्भङ्ग्यां = (१) तदर्थं कृतिस्तदर्थं निष्ठा, (२) अन्यार्थं कृतिस्तदर्थं निष्ठा, (३) तदर्थं कृतिरन्यार्थं निष्ठा, (४) अन्यार्थं कृतिरन्यार्थं च निष्ठेत्येवंरूपायां द्वयोः भङ्गयोः ग्रहात् = शुद्धत्वेनोपादानात् ।
तदुक्तं- 'तस्स कडं तस्स निट्ठियं चरमो भंगो तत्थ दु चरिमा सुद्धा । ' ( ) यदि च साध्वर्थं पृथिव्याद्यारम्भाऽप्रयोजकशुभसङ्कल्पनमपि गृहिणो दुष्टं स्यात्तदा साधुवन्दनादियोगोऽपि तथा स्यादिति न किञ्चिदेतत् । तदिदमुक्तम् -
स्वोचिते
यदारम्भे तथा सङ्कल्पनं क्वचित् । न दुष्टं शुभभावत्वात्तच्छुद्धाऽपरतु योगवत् ।। ( अ. ६ / ७) ।। १७ ।।
१. हस्तादर्शे 'निष्टत्यो' इत्यशुद्धः पाठः । २ हस्तादर्शे 'निश्चित' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'मुचितदाने...' इति पाठान्तरम्। ४. मुद्रितप्रतौ 'चउभंगो' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ ' द्यारम्भप्रयोज...!' इत्यशुद्धः पाठः ।
For Private Personal Use Only
।। १०२ ।
www.jainelibrary.org