SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ = यतिसम्प्रदानकत्वप्रकारदानेच्छात्मकस्य विरहो (=संकल्पभेदविरहो विषयो) दुर्वचः । केनेत्याह- यावदर्थिकं = यावदर्थिनिमित्तनिष्पादितं पुण्यार्थिकं = पुण्यनिमित्तनिष्पादितं च पिण्डं दुष्टं वदता, अन्यथोक्ताऽसङ्कल्पितत्वस्य यावदर्थिक-पुण्यार्थिकयोः सत्त्वेन तयोग्राह्यत्वाऽऽपत्तेः । तदाह“सङ्कल्पनं विशेषेण यत्राऽसौ दुष्ट इत्यपि । परिहारो न सम्यक्स्याद्यावदर्थिकवादिनः।।" "विषयो वाऽस्य वक्तव्यः पुण्यार्थं प्रकृतस्य च । असम्भवाऽभिधानात्स्यादाप्तस्याऽनाप्तताऽन्यथा ।।" (अष्टक.६/४-५) इति ।।१५।। उच्यते विषयोऽत्राऽयं भिन्ने देये स्वभोग्यतः । सङ्कल्पनं क्रियाकाले दुष्टं पुष्टमियत्तया ।।१६।। उच्यत इति । अत्राऽयं विषय उच्यते यदत क्रियाकाले - "पाकनिर्वर्तनसमर | स्वभोग्यात (?ग्यतः) = आत्मीयभोगाऽर्हादोदनादेः भिन्ने = अतिरिर इयत्तया = 'एतावदिह कुटुम्बायैतावच्चार्थिभ्यः पुण्यार्थं चेति विषयतया पुष्टं = संवलितं सङ्कल्पनं दुष्टम् । तदाह “विभिन्नं देयमाश्रित्य स्वभोग्याद्यत्र वस्तुनि । सङकल्पनं क्रियाकाले तद्दष्टं विषयोऽनयोः।।" (अष्टक-६/६) ।।१६।। १. हस्तादर्श 'ग्राह्यतापत्तेः' इति पाठः । २. हस्तादर्श ‘यावदर्थक...' इति पाठः । ३. हस्तादर्श 'स्वभोगत' ।। इति पाठः । ४. मुद्रितप्रतौ 'निवर्तन' इत्यशुद्धः पाठः । । ।।१०१। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy