SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ mymㄐ两面貸全和 सा धु सा म ग्य द्वा शि का ६/१५ Jain Education International गृह्णतः सामग्र्यं = चारित्रसमृद्धया पूर्णत्वं भवति । अलिवदित्यनेनाऽनटनप्रतिषेधः, तथा 'सत्यभ्याहृतदोषप्रसङ्गात् । साधुवन्दनार्थमागच्छद्भिः गृहस्थैः पिण्डाऽऽनयने नाऽयं भविष्यति, तदागमनस्य वन्दनार्थत्वेन साध्वर्थपिण्डाऽऽनयनस्य प्रासङ्गिकत्वादिति चेत् ? न, एवमपि मालापहृताद्यनिवारणादिति वदन्ति ।। १३ ।। नन्वेवं सद्गृहस्थानां गृहे भिक्षा न युज्यते । अनात्मम्भरयो यत्नं स्व- परार्थं हि कुर्वते ॥ १४॥ नन्वेवमिति । नन्वेवं = सङ्कल्पितपिण्डस्याप्यग्राह्यत्वे सद्गृहस्थानां = 'शोभनब्राह्मणाद्यगारिणां गृहे भिक्षा न युज्यते यतेः, हि = यतः अनात्मम्भरयः = अनुदरम्भ "यत्नं पाकादिविषयं स्व-परार्थं कुर्वते, भिक्षाचरदानाऽसङ्कल्पेन स्वार्थमेव पाकप्रयत्ने सद्गृहस्थत्वभङ्गप्रसङ्गात्, देवतापित्रतिथिभर्तव्यपोषणशेषभोजनस्य गृहस्थधर्मत्वश्रवणात् । न च दानकालात्पूर्वं देयत्वबुद्ध्याऽसङ्कल्पितं दातुं शक्यत इत्यपि द्रष्टव्यम् ।।१४।। सङ्कल्पभेदविरहो विषयो यावदर्थिकम् । पुण्यार्थिकं च वदता दुष्टमत्र हि दुर्वचः ।। १५ ।। सङ्कल्पेति । अत्र हि = 'असङ्कल्पितः पिण्डो यतेर्ग्राह्यः' इति वचने हि सङ्कल्पभेदस्य १. हस्तादर्शे 'सेत्य.....' इत्यशुद्धः पाठः । २ हस्तादर्शे 'सगृह...' इति पाठः । प्रत्यन्तरे च 'सद्गृस्था....' इति पाठः । ३. मुद्रितप्रती 'यत्र' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'शोभवन..... इत्यशुद्धः पाठः 1 ५. मुद्रितप्रती 'यंत्र' इत्यशुद्धः पाठः I For Private & Personal Use Only ।। १०० । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy