SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ यतो व्यवहारचूामुक्तं- “जो अणुसासिओ ण पडिनियत्तो सो सारूविअत्तणेण वा सिद्धपुत्तत्तणेण वा अच्छिउं कंचि कालं । सारूविओ णाम सिरमुंडो अरजोहरणो अलाउएहिं भिक्खं हिंडइ अभज्जो । सिद्धपुत्तो णाम सबाली भिक्खं हिंडइ वा ण वा वराडएहिं वेंटलिअं करेइ लट्टिं वा धरेतित्ति" (व्य.सू.चू. ) । केषुचिदित्यनेन ये उत्प्रवजितत्वेन क्रियान्तराऽसमर्थास्ते गृह्यन्ते । येषां पुनरत्यन्तावद्यभीरूणां संवेगाऽतिशयेन प्रव्रज्यां प्रति प्रतिबद्धमेव मानसं तेषामाद्यैव भिक्षा । एतव्यतिरिक्तानामसदारम्भाणां च पौरुषध्येव । 'तत्त्वं पनरिह केवलिनो विदन्तीत्यष्टकवृत्तिकद्वचनं (अ.प्र.५/८ वृ.) च तेषां नियतभावाऽपरिज्ञानसूचकमित्यवधेयम् ।।१२।। अन्याऽबाधेन सामग्र्यं मुख्यया भिक्षयाऽलिवत् । गृह्णतः पिण्डमकृतमकारितमकल्पितम् ।।१३।। ___ अन्येति । अन्येषां = स्वव्यतिरिक्तानां दायकानां अबाधेन = अपीडनेन (=अन्याऽबाधेन) मुख्यया = सर्वसम्पत्कर्या भिक्षया अलिवद् = भ्रमरवद् अकृतमकारितमकल्पितं च पिण्डं १. योऽनुशिष्टो न प्रतिनिवृत्तः सारूपिकत्वेन वा सिद्धपुत्रत्वेन वा स्थित्वा कञ्चित्कालं, सारुपको नाम मुण्डशिरा अरजोहरणः अलाबुकैः भिक्षां हिण्डेऽभार्यश्च। सिद्धपुत्रो नाम सबालः भिक्षा हिण्डते वा न वा वराटकैः वेण्टलिकां करोति यष्टिं वा धारयति इति । २. मुद्रितप्रतौ 'अच्छउ' इत्यशुद्धः पाठः। ३. हस्तादर्श 'सारवि..' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'अलाउयाहिं' इति पाठः। ५. मुद्रितप्रतौ 'वेठलिअं' इति पाठः । ६. मुद्रितप्रतौ 'पौरुषघ्नयेव' इत्यशुद्धः पाठः । ६/१३ ||९९।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy