________________
Eb) EFr
सनाऽवर्णवादेन धर्मलघुतामेवाऽऽपादयतीति । तदिदमुक्तम्
प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते । असदारम्भिणस्तस्य पौरुषघ्नीति कीर्तिता ।। ___धर्मलाघवकृन्मूढो भिक्षयोदरपूरणम् । करोति दैन्यात्पीनाङ्गः पौरुषं हन्ति केवलम् ।। (अष्टक-५/४-५) अत्र प्रतिमाप्रतिपन्नभिक्षायां दीक्षाविरोधित्वाऽभावादेव नाऽतिव्याप्तिरिति ध्येयम् ।।११।।
क्रियान्तराऽसमर्थत्वप्रयुक्ता वृत्तिसंज्ञिका ।
दीनान्धादिष्वियं सिद्धपुत्रादिष्वपि केषुचित् ।।१२।। क्रियान्तरेति । क्रियान्तराऽसमर्थत्वेन प्रयुक्ता (=क्रियान्तराऽसमर्थत्वप्रयुक्ता), न तु मोहेन चारित्रशुद्धीच्छया वा वृत्तिसंज्ञिका भिक्षा भवति । इयं च दीनाऽन्धादिषु सम्भवति । यदाहनिःस्वाऽन्ध-पङ्गवो ये तु न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते ।।
नाऽतिदुष्टाऽपि चाऽमीषामेषा स्यान्न ह्यमी तथा । अनुकम्पानिमित्तत्वाद्धर्मलाघवकारिणः।। (अ.५/६-७) तथा सिद्धपुत्रादिष्वपि केषुचिद् वृत्तिभिक्षा सम्भवति, आदिना सारूपिकग्रहः, दीनादिपदाऽव्यपदेश्यत्वाच्चैषां पृथगुक्तिः । श्रूयन्ते चोत्प्रव्रजिता अमी जिनागमे 'भिक्षुकाः,
९८।।
१. हस्तादर्श 'भिक्षाका' इति पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org