SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कत्वादनारम्भकत्वस्य न तत्सम्भवः । न च तद्भिक्षायाः सर्वसम्पत्करी'कल्पत्वोक्त्यैव निस्तारः। इत्थं हि यथाकथञ्चित् 'सर्वसम्पत्करीयमिति व्यवहारोपपादनेऽपि 'न 'पौरुषघ्नी'त्यादिव्यवहाराऽनुपपादनात्। तथा च- यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य सर्वसम्पत्करी मता।। (अष्टक-५/२) इत्याचार्याणामभिधानं सम्भवाऽभिप्रायेणैव । ___जिनकल्पिकादौ गुर्वाज्ञाव्यवस्थितत्वादेरिव सदाऽनारम्भित्वस्य फलत एव ग्रहणात्, अन्यथा लक्षणाऽननुगमाऽऽपत्तेः । द्रव्यसर्वसम्पत्करीमुपेक्ष्य भावसर्वसम्पत्करीलक्षणमेव वा कृतमिदमिति यथातन्त्रं भावनीयम् ।।१०।। दीक्षाविरोधिनी भिक्षा पौरुषघ्नी प्रकीर्तिता । धर्मलाघवमेव स्यात्तया पीनस्य जीवतः ॥११॥ दीक्षेति । दीक्षाया विरोधिनी (=दीक्षाविरोधिनी) = दीक्षाऽऽवरणकर्मबन्धकारिणी भिक्षा पौरुषघ्नी प्रकीर्तिता । तया जीवतः पीनस्य = 'पुष्टाङ्गस्य धर्मलाघवमेव स्यात् । तथाहि- गृहीतव्रतः पृथिव्याधुपमर्दनेन शुद्धोञ्छजीविगुणनिन्दया च भिक्षां गृह्णन् स्वस्य परेषां च धर्मस्य लघुतामेवाऽऽपादयति । तथा गृहस्थोऽपि यः सदाऽनारम्भविहितायां भिक्षायां तचितमात्मानमाकलयन्मोहमाश्रयति सोऽपि 'अनुचितकारिणोऽमी खल्वार्हताः' इति शा ६/११ ।।९७। १. हस्तादर्श 'करिक' इति पाठः । २. हस्तादर्श 'पौरुघ्नी' इति पाठः । ३. हस्तादर्श 'पुष्टस्य' इति पाठान्तरम् । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy