SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Ey E FRs योगादिति । अन्त्यबोधस्य = तत्त्वसंवेदनस्य योगादेव = संस्काररूपसम्बन्धादेव साधुः सामग्र्यं = पूर्णभावं अश्नुते । अन्यथा = तत्त्वज्ञानसंस्काराऽभावे 'पुनर्योगशक्त्यनुवृत्तौ शङ्काकाङ्क्षादिना आकर्षगामी वा स्यात्, तदननुवृत्तौ च पतितो वा, न संशयोऽत्र कश्चित्, बाह्यलिङ्गस्याऽकारणत्वात् ।।८।। त्रिधा भिक्षाऽपि तत्राऽऽद्या सर्वसम्पत्करी मता । द्वितीया पौरुषघ्नी स्याद् वृत्तिभिक्षा तथाऽन्तिमा ।।९।। विधेति । व्यक्तः ।।९।। सदाऽनारम्भहेतुर्या सा भिक्षा प्रथमा स्मृता । एकबाले द्रव्यमुनौ सदाऽनारम्भिता 'तु न ॥१०॥ सदेति । सदाऽनारम्भस्य हेतुर्या भिक्षा सा प्रथमा = सर्वसम्पत्करी स्मृता, तद्धेतुत्वं च सदाऽऽरम्भपरिहारेण सदाऽनारम्भगुणाऽनुकीर्तनाऽभिव्यङ्ग्यपरिणामविशेषाऽऽहितयतनया वा । सदाऽनारम्भिता त्वेकबाले द्रव्यमुनौ संविग्नपाक्षिकरूपे न सम्भवति । इदमुपलक्षणमेकादशी प्रतिमा प्रतिपन्नस्य श्रमणोपासकस्याऽपि प्रतिमाकालाऽवधि। १. हस्तादर्श 'पुनः' पदं नास्ति । २. मुद्रितप्रतौ 'पुनः' इत्यशुद्धः पाठः । ।।९६। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy