________________
456095
सा
धु
सा
म
ग्य
द्वा
त्रिं
शि
का
६/८
Jain Education International
‘तथाविधप्रवृत्त्यादिव्यङ्ग्यं' सदनुबन्धि च' । ( अष्टक - ९/५ ) तथा 'न्याय्यादौ शुद्धवृत्त्यादिगम्यमेतत्प्रकीर्त्तितम्' (अष्टक - ९/७ ) इति ।।६।।
'ननु क्वैतानि लिङ्गान्युपयुज्यन्ते' इत्यत आहजातिभेदानुमानाय व्यक्तीनां वेदनात्स्वतः ।
=
तेन कर्मान्तरात् कार्यभेदेऽप्येतद्भिदाऽक्षता ।।७।। जातीति | जातिभेदस्य = = निष्कम्पपाप्रवृत्त्यादिजनकताऽवच्छेदकस्याऽज्ञानादिगतस्याऽनुमानाय (= जातिभेदानुमानाय) उक्तानि लिङ्गानीति सम्बन्धः, व्यक्तीनां = अज्ञानादिव्यक्तीनां स्वतः लिङ्गनैरपेक्ष्येणैव वेदनात् = परिज्ञानात् । तेन कर्मान्तरात् = चारित्रमोहादिरूपादुदयक्षयो२पशमावस्थावस्थितात् कार्यभेदेऽपि सावद्याऽनवद्यप्रवृत्तिवैचित्र्येऽपि (ए) तद्भिदा अज्ञानादिभिदा अक्षता, प्रवृत्तिसामान्ये ज्ञानस्य हेतुत्वात्तद्वैचित्र्येणैव तद्वैचित्र्योपपत्तेः, प्रवृत्तौ कर्मविशेषप्रतिबन्धकत्वस्याऽपि हेतुविशेषविघटनं विनाऽयोगात् ।
=
वस्तुतः कार्यस्वभावभेदे कारणस्वभावभेदः सर्वत्राप्यावश्यकः, अन्यथा हेत्वन्तरसमवधानस्याप्यकिञ्चित्करत्वादिति विवेचितमन्यत्र ||७|| योगादेवाऽन्त्यबोधस्य साधुः सामग्र्यमश्नुते ।
अन्यथाऽऽकर्षगामी स्यात् पतितो वा न संशयः ।।८।।
व्यगं' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ .. पशमावस्थानव...' इत्यशुद्धः पाठः ।
१. मुद्रित
=
For Private & Personal Use Only
।। ९५ ।।
www.jainelibrary.org