________________
BE by E
E
।। (अष्टक-९/४) ।।४।।
स्वस्थवृत्तेस्तृतीयं तु सज्ज्ञानावरणव्ययात् ।
साधोर्विरत्यवच्छिन्नमविघ्नेन फलप्रदम् ।।५।। स्वस्थेति। स्वस्था = अनाकला वृत्तिः कायादिव्यापाररूपा यस्य तस्य (=स्वस्थवृत्तेः) साधोः-'तु तृतीयं विरतिः = सदसत्प्रवृत्तिनिवृत्त्यात्मिका तया अवच्छिन्नं = उपहितं (=विरत्यवच्छिन्नं) अविघ्नेन = विघ्नाऽभावेन फलप्रदम । तदाह
स्वस्थवृत्तेः प्रशान्तस्य तद्धेयत्वादिनिश्चयम् ।
तत्त्वसंवेदनं सम्यग् यथाशक्ति फलप्रदम् ।। (अष्टक ९/६) इदं च सज्ज्ञानावरणस्य व्ययात् = क्षयोपशमात्प्रादुर्भवति। तदाह- 'सज्ज्ञानावरणापाय'मिति (अ.९/७) ।।५।।
निष्कम्पा च सकम्पा च प्रवृत्तिः पापकर्मणि ।
निरवद्या च सेत्याहुर्लिङ्गान्यत्र यथाक्रमम् ।।६।। निष्कम्पा चेति । अत्र = उक्तेषु त्रिषु भेदेष्वज्ञान'ज्ञानसज्ज्ञानत्वेन फलितेषु यथाक्रम पापकर्मणि 'निष्कम्पा = दृढा प्रवृत्तिः सकम्पा चाऽदृढा निरवद्या च सा = प्रवृत्तिः इति लिङ्गान्याहुः । तदुक्तं 'निरपेक्षप्रवृत्त्यादिलिङ्गमेतदुदाहृतम्' (अ.प्र.९/३) तथा, १. मुद्रितप्रतौ 'तु' पदं नास्ति । २. मुद्रितप्रतौ 'अपहितं' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ..वज्ञान-सज्ज्ञान...' इति त्रुटितः पाठः । ४. हस्तादर्श 'सिष्कं...' इत्यशुद्धः पाठः ।
।।९४।
Jain Education Interational
For Privale & Personal Use Only
www.jainelibrary.org