SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रतिभासादिवत् = तत्तुल्यम् (=मुग्धरत्नाऽऽदिप्रतिभासवत्) । तदाह- 'विषकण्टकरत्नादौ बालादिप्रतिभासवत्' (अष्टक-९/२) इति । अज्ञानं = मत्यज्ञानादिकं तदावरणं यत्कर्म तस्य अपायः = क्षयोपशमस्तस्मात् (=अज्ञानाऽऽवरणाऽपायात्) । तदाह- ''अज्ञानावरणापायं' (अ.९/३) इति । ग्राह्यत्वादीनाम् = उपादेयत्वादीनां अविनिश्चयः = अनिर्णयो' यतस्तत् (=ग्राह्यत्वाद्यविनिश्चयम्)। तदाह- 'तद्धेयत्वाद्यवेदक'मिति (अष्टक- ९/२) । यद्यपि मिथ्यादृशामपि घटादिज्ञानेन घटादिग्राह्यता निश्चीयत एव, तथापि स्वविषयत्वावच्छेदेन तदनिश्चयान्न दोषः, स्वसंवेद्यस्य स्वस्यैव तदनिश्चयात् ।।३।। भिन्नग्रन्थेर्द्वितीयं तु ज्ञानावरणभेदजम् ।। श्रद्धावत् प्रतिबन्धेऽपि कर्मणा सुख-दुःखयुक् ।।४।। भिन्नग्रन्थेरिति । भिन्नग्रन्थेः = सम्यग्दृशस्तु द्वितीयं = आत्मपरिणामवत् ज्ञानाऽऽवरणस्य भेदः = क्षयोपशमस्तज्जं (=ज्ञानावरणभेदजम्), तदाह - "ज्ञानावरणह्रासोत्थ मिति (अष्टक ९/५) श्रद्धावत् = वस्तुगुणदोषपरिज्ञानपूर्वकचारित्रेच्छान्वितं प्रतिबन्धेऽपि चारित्रमोहोदयजनितान्तरायलक्षणे सति, कर्मणा पूर्वाऽर्जितेन सुख-दुःखयुक् = सुख-दुःखान्वितम् । तदाह - 'पातादिपरतन्त्रस्य तद्दोषादावसंशयम । अनर्थाद्याप्तियुक्तं चाऽऽत्मपरिणतिमन्मतम्' १. हस्तादर्श 'अज्ञानावराणा...' इत्यशुद्धः पाठः । २. हस्तादर्श ...नियतः...' इति त्रुटितोऽशुद्धश्च पाठः । । ३. हस्तादर्श 'तथाहि' इति पाठः । ४. हस्तादर्श 'ज्ञानावरणः' इति पाठः । ।।९३।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy