SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अन्यत्राऽऽरम्भवान् यस्तु तस्याऽत्राऽऽरम्भशङ्किनः ।। अबोधिरेव परमा' विवेकौदार्यनाशतः ।।३०।। अन्यत्रेति। यस्त्वन्यत्र' = कुटुम्बाद्यर्थे आरम्भवाँस्तस्याऽत्र = जिनपूजानिमित्तपुष्पादौ आरम्भशङ्किनः = स्तोकपुष्पादिग्रहणाऽभिव्यङ्ग्याऽऽरम्भशङ्कावतः परमा = प्रकृष्टा अबोधिरेव = बोधि-हानिरेव, विवेकः कार्याऽकार्यज्ञानमौदार्यं च विपुलाऽऽशयलक्षणं तयो शतः (=विवेकौदार्यनाशतः)। तदुक्तं - "अण्णत्थाऽऽरंभवओ धम्मेऽणारंभओ अणाभोगो । लोए पवयणखिंसा अबोहिबीअंति दोसा अ ।।” (पंचाशक. ८/१२) ।।३०।। नन्वेवं धर्मार्थमप्यारम्भप्रवृत्तिप्राप्तौ, धर्मार्थं यस्य वित्तेहा तस्याऽनीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।।। (अष्टक ४/६, पराशरस्मृति-१३३ हितोपदेश-१/१८७, पञ्चतन्त्र-२/१५७) तथा, 'शुद्धागमैर्यथालाभं प्रत्यग्रैः शुचिभाजनैः । स्तोकैर्वा बहुभिर्वापि पुष्पैर्जात्यादिसम्भवैः ।।' (अष्टक ३/२) इत्यादिकं विरुध्येतेत्याशझ्याह यच्च धर्मार्थमित्यादि तदपेक्ष्य दशान्तरम् । सङ्काशादेः किल श्रेयस्युपेत्यापि प्रवृत्तितः ॥३१॥ १. हस्तादर्श 'परम' इति पाठः । २. हस्तादर्श 'कुत्र' इति पाठः । ३. मुद्रितप्रतौ 'प्रत्येग्रेः' इत्यशुद्ध पाठः । ४. मुद्रितप्रतौ 'श्रेयस्युपेत्यादि' इत्यशुद्धः पाठः । ।।८९।। Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy