SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 4 | F_ho P । परम्पराकारणम् । अनन्तरं नारकादिभवपरम्पराकारणं चैतद् द्वितीयम् । यच्च तिर्यगादेः । प्राग्जन्मोपात्तं तिर्यक्त्वाद्यशुभभावाऽनुभवननिमित्तमनन्तरं च नरकादिहेतुः तत्तृतीयम् । तदनन्तरं देवादिगतिपरम्परानिमित्तं चैतच्चतुर्थमिति। यदाह (अष्टके) → गेहाद् गेहान्तरं कश्चिच्छोभनादधिकं नरः। याति यद्वत्सुधर्मेण तद्वदेव भवाद् भवम् ।। (अ.२४/१) गेहाद् गेहान्तरं कश्चिच्छोभनादितरन्नरः। याति यद्वदसद्धर्मात्तद्वदेव भवाद् भवम् ।। (अ.२४/२) गेहाद् गेहान्तरं कश्चिदशुभादधिकं नरः। याति यद्वन्महापापात्तद्वदेव भवाद् भवम् ।। (अ.२४/३) गेहाद् गेहान्तरं कश्चिदशुभादितरन्नरः। याति यद्वत्सुधर्मेण तद्वदेव भवाद् भवम् ।। (अ.२४/४) ____ अत्र चाऽऽद्यभङ्गवर्तिभगवत्पुण्यमनुभूताऽवशिष्टमप्युचितक्रियाप्रगुणमेवेति न दानादकृतार्थत्वमिति भावनीयम् ।।१६।। एतदेव गुणान्तराऽनुगुणविपाकशालितया स्पष्टयति गर्भादारभ्य सत्पुण्याद् भवेत्तस्योचिता क्रिया । तत्राऽप्यभिग्रहो न्याय्यः श्रूयते स्वामिनस्ततः ।।१७।। __ गर्भादिति । गर्भादारभ्य सत्पुण्यात् = पुण्याऽनुबन्धिपुण्यात् भवेत् तस्य = तीर्थकृत उचिता क्रिया, २"तीर्थकृत्त्वं सदौचित्यप्रवृत्त्या मोक्षसाधक"मिति (अष्टक-२५/१) वचनादुचितप्रवृत्तिद्वारा तीर्थकृत्त्वस्य मोक्षसाधकत्वात् । ततः = तस्मात् तत्राऽपि = गर्भेऽपि १. मुद्रितप्रतौ 'सत्पुण्यात्' इति पदं नास्ति । २. अतः प्रकर्षसम्प्राप्ताद्विज्ञेयं फलमुत्तमम् । इति पूर्वार्धः अष्टक r ।।६१। २५-१ । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy