________________
।। भावादीभावः स्यात्तदा सङ्ख्याकरणमप्ययुक्तं, अल्पस्यापि दानस्याऽसम्भवात्, इत्यत्रोच्यतेदेवताशेषाया' इव संवत्सरमात्रेण प्रभूतप्राणिग्राह्यत्वाद्युक्तमेव सङ्ख्यावत्त्वमिति ।।१५।।
दानादेवाऽकृतार्थत्वान्महत्त्वं नेति मन्दधीः ।
तस्योत्तरमिदं पुण्यमित्थमेव विपच्यते ॥१६॥ दानादिति। 'दानादेव हेतोः अकृतार्थत्वात् = फलविशेषप्रत्याशाऽऽवश्यकत्वेनाऽसिद्धप्रयोजनत्वात् महत्त्वं न अर्हतः' इति मन्दधीः कश्चिदाह । तस्येदमुत्तरं यदुत पुण्यं = तीर्थकरत्वनिबन्धनं इत्थमेव = दानादिप्रक्रमेणैव विपच्यते = स्वविपाकं प्रदर्शयति । तथा च स्वकल्पादेव भगवतो दानं न तु फलप्रत्याशयेति नाऽकृतार्थत्वमिति ध्वन्यते । तदिदमाह_ 'उच्यते कल्प एवास्य 'तीर्थकृन्नामकर्मणः ।
उदयात् सर्वसत्त्वानां हित एव प्रवर्तते ।।' (अष्टक २७/२) इति ।
चत्वारो हि भङ्गा पुण्य-पापयोः सम्भवन्ति । पुण्याऽनुबन्धि पुण्यमित्येकः, पापाऽनुबन्धि ४/१६ पुण्यमिति द्वितीयः, पापाऽनुबन्धि पापमिति तृतीयः, पुण्याऽनुबन्धि पापमिति चतुर्थः ।
तत्राऽऽद्यं मनुष्यादेः पूर्वभवप्रचितं मानुषत्वादिशुभभावाऽनुभवहेतुः अनन्तरं देवादिगति- १. मुद्रितप्रतौ 'देवताशोषा...' इत्यशुद्धः पाठः । २. 'संवत्सरमात्रेणाऽप्रभूतप्राणिग्राह्यत्वादिति अष्टकप्रकरणमुद्रितप्रतौ । ३. मुद्रितप्रतौ 'तीयकृ...' इत्यशुद्धः पाठः । ४. 'हेत्वनन्तरं' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
६० ।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org