________________
Phow
'महादानं हि संख्यावदीभावाज्जगद्गुरोः । सिद्धं वरवरिकातस्तस्याः सूत्रे विधानतः ।।' (अष्टक.२६/५) इति ।।१४।।
स च स्वाम्यनुभावेन सन्तोषसुखयोगतः ।
धर्मेऽप्युग्रोद्यमात्तत्त्वदृष्ट्येत्येतदनाविलम् ॥१५॥ स चेति । स च = अर्थ्यभावश्च स्वाम्यनुभावेन = भगवतः सिद्धयोगफलभाजः प्रभावेण सोपक्रम-निरुपक्रमधनाऽऽदानवाञ्छाजनककर्मणा(णां) सन्तोषसुखस्याऽनिच्छामितेच्छालक्षणस्य योगतः = सम्भवात् (= सन्तोषसुखयोगतः) । ____ तथा स्वाम्यनुभावेनैव प्राणिनां धर्मेऽपि कुशलाऽनुष्ठानरूपे उग्रोद्यमात् = अतिशयितप्रयत्नात् तत्त्वदृष्ट्या = संसाराऽसारतापरिज्ञानेन, इत्येतत् = सङ्ख्यावद्दानं अनाविलं = निर्दोषम् । तदिदमुक्तं"महानुभावताप्येषा 'तद्भावे न यदर्थिनः । विशिष्टसुखयुक्तत्वात् सन्ति प्रायेण देहिनः।। धर्मोद्यताश्च तद्योगात्ते तदा तत्त्वदर्शिनः । महन्महत्त्वमस्यैवमयमेव जगद्गुरुः ।।"
(अष्टक २६/७-८) इति । यत्तु सन्तोषजनकत्वे मितमपि दानं न स्यादिति केनचिदुच्यते तत्तूक्तसन्तोषव्यवस्थाऽपरिज्ञानविजृम्भितम् । तदिदमाहाष्टकवृत्तिकृत् 'ननु यदि तीर्थङ्कराऽनुभावादशेषदेहिनां सन्तोष१. हस्ताद” 'इत्येत्' इति त्रुटितः पाठः । २. हस्तादर्श 'अनाषि...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'तद्भावेन' इति पदच्छेदशून्यः पाठः ।
४/१५
।।५९।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org