SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ जि न म ह he te has its त्त्व द्वा त्रिं शि का ४/१४ Jain Education International च हुंति कोडिओ । असियं च सयसहस्सा एयं संवच्छरे दिन्नं ।। ' ( आ.नि. २२० ) इत्यादिना । नः = अस्माकं शास्त्रे च एतद् = दानं (हि) असङ्ख्यं त्रिजगद्गुरोः = बोधिसत्त्वस्य गीयते । तदुक्तं - “एते हाटकराशयः प्रवितताः शैलप्रतिस्पर्द्धिनो, रत्नानां निचयाः स्फुरन्ति किरणैराक्रम्य भानोः प्रभाः। हाराः पीवरमौक्तिकौघरचितास्तारावली भासुरा, यानादाय निजानिव स्वगृहतः स्वैरं जनो गच्छति ।। " ( ) इत्यादि । । १३ ।। असङ्ख्यदानदातृत्वेन हि बोधिसत्त्वस्य बहुविभूतिमत्त्व - कार्पण्याऽभावादिना परेण महत्त्वं व्यवस्थाप्यते, सङ्ख्यावद्दानदातृत्वेन च जिनस्य तद्विपर्ययान्न महत्त्वमिति, तच्चाऽयुक्तं, सङ्ख्यावत्त्वस्याऽन्यप्रयुक्तत्वादित्याशयेन समाधते अत्रोच्यते न सङ्ख्यावद्दानमर्थाद्यभावतः । सूत्रे वरवरिकायाः श्रुतेः किं त्वर्थ्यभावतः । । १४ ॥ अत्रोच्यते इति । अत्र = भगवद्दानस्य सङ्ख्यावत्त्वे उच्यते- न संख्यावद्दानमर्थाद्यभावतः, आदिनोदारत्वग्रहः । अत्रैव किं मानमित्यत आह- सूत्रे = आवश्यकनिर्युक्त्यादिरूपे वरवरिकायाः = ‘वृणुत वरं, वृणुत वरमित्युद्घोषणारूपायाः श्रुतेः, तस्याश्चार्थाद्यभावविरोधात्, किन्त्वर्थ्यभावतः = अन्यादृशयाचकाऽभावात् । तदिदमुक्तं १. हस्तादर्शे ...गृहित' इति पाठः । For Private & Personal Use Only ।। ५८ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy