________________
जि
न
म
ho has de
ह
त्त्व
त्रिं
शि
का
४/१३
Jain Education International
लाघवाद्धर्मस्यैव' धारकत्वौचित्यम् । तदिदमुच्यते निरालम्बा निराधारा विश्वाधारा वसुन्धरा । यच्चाऽवतिष्ठते तत्र धर्मादन्यन्न कारणम् ।। ← (योगशास्त्र. ४ / १८ ) इति । तथा कृतित्वेनापि जन्यत्वाच्च न जगत्कर्तृत्वसिद्धिः । कृतित्वाद्यवच्छिन्ने इच्छादेर्हेतुत्वान्नित्यकृत्यादौ मानाऽभावात् जन्यत्वस्य कार्यताऽवच्छेदककोटौ प्रवेशे गौरवात्, फलमुखस्याऽपि तस्य क्वचिद्दोषत्वात् ।
‘‘नित्यं विज्ञानमानन्दं ब्रह्म' (बृहदारण्यक - ३/९/२८) इति श्रुतेर्नित्यज्ञानसिद्धावपि नित्येच्छाकृत्योरसिद्धेः, अत एव नित्यसुखस्याऽपीश्वरे सिद्धिप्रसङ्गाच्च । तस्मादुक्तश्रुतिरपि नित्यज्ञान-सुखाऽऽश्रयतया ध्वस्तदोषत्वेनैव महत्त्वमीश्वरस्य बोधयतीति स्थितम् ।
इत्येष विस्तरोऽन्यत्र = स्याद्वादकल्पलतादौ, दिग्मात्रप्रदर्शनं पुनरेतदिति बोध्यम् ।। १२ ।। अन्ये त्वाहुर्महत्त्वं हि संख्यावद्दानतोऽस्य न ।
शास्त्रे नो गीयते ह्येतदसङ्ख्यं त्रिजगद्गुरोः ।।१३।।
अन्ये त्विति । अन्ये तु = बौद्धास्तु आहुः 'अस्य = जिनस्य हि सङ्ख्यावद्दानतो न महत्त्वम् । श्रूयते हि 'जिनदानस्य सङ्ख्यावत्त्वं, "तिन्नेव य कोडिसया अट्ठासीअं १. 'धर्मस्येव' इत्यशुद्धो मुद्रितप्रतौ । २. 'धारो' इत्यशुद्धः पाठो हस्तादर्शे । ३. मुद्रितप्रती 'कार्यत्वा... इति पाठान्तरम् । ४. ‘नित्यवि....' इति पाठो मुद्रितप्रतौ । ५. हस्तादर्शे 'सिधं' इत्यशुद्धः पाठः । ६. हस्तादर्शे 'जिनं दा...' इति पाठ: । ७ त्रीण्येव च कोटिशतान्यष्टाशीतिश्च भवन्ति कोट्यः । अशीतिश्च शतसहस्राण्ये - तत्संवत्सरे दत्तम् ||२२० || आ.नि. ।।
For Private Personal Use Only
114011
www.jainelibrary.org