SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ क + hcen __ 'ब्रह्माण्डादिधृतिः प्रयत्नजन्या, धृतित्वात्, घटादिधृतिवत्' इत्यनुमानाद् ब्रह्माण्डादिधारकप्रयत्नाऽऽश्रयतया जगत्कर्तृत्वसिद्धिः । तथा च श्रुतिः ‘एतस्य चाऽक्षरस्य प्रशासने गार्गि' ! द्यावापृथिवी विधृते तिष्ठतः' (बृहदारण्यक-८/३/९) इत्यत आह धृत्यादेरपि धर्मादिजन्यत्वान्नाऽत्र मानता । कृतित्वेनापि जन्यत्वाच्चेत्यन्यत्रैष विस्तरः ॥१२॥ धृत्यादेरिति । धृत्यादेरपि, धृतिः पतनप्रतिबन्धकः संयोगः आदिना स्थितिग्रहः, धर्मादिजन्यत्वाद्, आदिना स्वभावादिग्रहः, 'नाऽत्र = जगत्कर्तृत्वे मानता = प्रमाणता । उक्तश्रुतावक्षरप्रशासनपदयोः सङ्ग्रहाऽभिमतैकात्म-तद्धर्मपरतया नाऽनुपपत्तिः । किञ्च प्रयत्नवदीश्वरसंयोगमात्रस्य धारकत्वेऽतिप्रसङ्गः । ___ धारणाऽनुकूलप्रयत्नवदीश्वरसंयोगस्य 'धारणाऽवच्छिन्नेश्वरप्रयत्नस्यैव वा तत्त्वे स एव दोषो यदि न स्वजनकवृत्तिधारणाऽवच्छिन्नविशेष्यताया धारणाऽवच्छिन्नविशेष्यताया एव वा धारकताऽवच्छेदकसम्बन्धत्वमभ्युपगम्यते । _____ तदभ्युपगमे च तज्ज्ञानेच्छयोरपि धारकत्वाऽऽपत्तौ गौरवात् । १. हस्तादर्श 'गार्गी' इत्यशुद्धः पाठः । २. हस्तादर्श 'परितन.. इत्यशुद्धः पाठः । ३. हस्तादर्श ‘मात्र' इत्यशुद्धः पाठः । ४. हस्तादर्श ....गमस्य' इति त्रुटितोऽशुद्धश्च पाठः । ५. मुद्रितप्रतौ 'धारणव...' इत्यशुद्धः पाठः । ६. मुद्रितप्रती 'धारणावच्छिन्नविशेष्यताया' इति पदं नास्ति । ७. हस्तादर्श 'ज्ञान-क्रिस्थयो' इत्यशुद्धः पाठः । के ४/१२ ।।।५६।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy