SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ____ कार्यत्वस्य कालिकसम्बन्धेन घटत्व-पटत्वादिमत्त्वरूपस्य नानात्वात् । कृत्यव्यवहितोत्तरत्वस्य परम्परासम्बन्धेन कृतित्वस्यैव वा कर्तृजन्यताऽवच्छेदकत्वौचित्याच्च ।।१०।। 'द्रव्यजन्यताऽवच्छेदकतया सिद्धं जन्यसत्त्वमेव कर्तृकार्यताऽवच्छेदकं भविष्यतीत्यत आह कर्तृत्वेन च हेतुत्वे ज्ञातृत्वेनाऽपि तद् भवेत् । ज्ञानस्यैव च हेतुत्वे सिद्धे नः सिद्धसाधनम् ।।११।। कर्तृत्वेनेति । कर्तृत्वेन च हेतुत्वे ज्ञातृत्वेनाऽपि तद् = हेतुत्वं भवेत्, तथा चाऽनेककार्यकारणभावकल्पनमित्थमप्रामाणिकमिति भावः । ___ 'घट-तदुपादानप्रत्यक्षयोः कार्यकारणभावः कल्प्यमानः सामान्यव्यभिचाराऽनुपस्थितिलाघवाभ्यां सामान्यत एव सिध्यतीति द्व्यणुकाद्युपादानप्रत्यक्षाऽऽश्रयतया जगत्कर्तृत्वं सेत्स्यती'त्यत आह- ज्ञानस्यैव च हेतुत्वेऽभ्युपगम्यमाने "सिद्धे नः = अस्माकं सिद्धसाधनं, प्रवाहतस्तेषामनादित्वात् । तदिदमुच्यते → 'जं जहा भगवया दिटुं तं तहा विपरिणमइत्ति (व्याख्याप्रज्ञप्ति-१।४।४१)। ___अपि चैवमुपादानप्रत्यक्षं निराश्रयमेव सिध्यतु, गुणस्य साश्रयकत्वव्याप्तौ मानाऽभावात्, क्षणमात्रमिव सदापि कस्यचिद् गुणस्यानाश्रयस्याऽवस्थितेर्वक्तुं शक्यत्वात् ।।११।। १. हस्तादर्शविशेषे 'द्रव्यजन्यतावच्छेदकत्वोचित्याच्च' इति त्रुटितोऽशुद्धश्च पाठः । २. मुद्रितप्रतौ 'कर्तृकार्यत्वा...' इति पाठान्तरम्। ३. हस्तादर्श 'सिदै निः' इत्यशुद्धः पाठः । ४. मुद्रितप्रतो 'सिद्धेः' इति पाठः, हस्तादर्श तु 'सिद्धौः' इति पाठः । ५. यद्यथा भगवता दृष्टं तत्तथा विपरिणमति । ४/११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy