SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ जि न म he P has त्त्व द्वा त्रिं शि का ४/१० Jain Education International कत्वजातिसिद्ध्याऽर्थान्तराऽऽपत्तेः । दोषत्वादिजातिग्रहे च दृष्टान्तस्य साध्यविकलत्वात्, तथापि दोषत्वमावरणत्वं च निःशेषक्षीयमाणवृत्ति देशतः क्षीयमाणवृत्तिजातित्वात्, स्वर्णमलत्ववदित्यत्र तात्पर्यम् ।।९।। इत्थं जगदकर्तृत्वेऽप्यमहत्त्वं निराकृतम् । कार्ये कर्तृप्रयोज्यस्य विशेषस्यैव दर्शनात् ।। १० । = इत्थमिति । इत्थं ध्वस्तदोषत्वेनैव महत्त्वसिद्धौ जगदकर्तृत्वेऽपि सति भगवतः अमहत्त्वं निराकृतं जगत्कर्तृत्वस्य क्वचिदप्यसिद्धेश्च । न च ' क्षित्यादिकं सकर्तृकं, कार्यत्वात्, घटादिवत्' इत्यनुमानात्तत्सिद्धिः, अप्रयोजकत्वात् । 'कार्यत्वेन 'कर्तृत्वेन च कार्यकारणभावस्य विपक्षबाधकस्य तर्कस्य सत्त्वान्नाऽप्रयोजकत्वमिति चेत् ? न, कार्यत्वाऽवच्छिन्नं प्रति कर्तृत्वेन हेतुत्वे प्रमाणाऽभावात्, कार्ये = घटादौ कर्तृप्रयोज्यस्य कर्तृजन्यताऽवच्छेदकस्य विशेषस्यैव क्षिति-मेर्वादिव्यावृत्तजातिविशेषस्यैव दर्शनाद् : 'इदं सकर्तृकमिदं च ने 'ति व्युत्पन्नव्यवहारेण ग्रहणाद्, व्याप्यधर्मेण व्यापकधर्माऽन्यथासिद्धेः, = = = तदवच्छिन्न एव कर्तृत्वेन हेतुत्वात् । 'पृथिवीत्वादिना साङ्कर्यान्नाऽयं विशेष' इति चेत् ? न, उपाधिसाङ्कर्यस्येव जातिसाङ्कर्यस्याऽप्यदूषणत्वस्य त्वदीयैरेव व्यवस्थापितत्वात्, 9 हस्तादर्शे 'कन' इति त्रहितोऽशब्दश्च पाठः । For Private & Personal Use Only ।।५४।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy