SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ क + E he_2_st तथा च प्रतियोग्यप्रसिद्ध्याऽभावाऽप्रसिद्धेर्हेतुरेवाऽसिद्ध इति भावः। महत्पदप्रवृत्तिनिमित्ततयैव नित्यनिर्दोषात्मत्वं सेत्स्यतीत्यत आह- पुमन्तरस्य = नित्य|| निर्दोषस्य पंसः कल्प्यत्वाद्वरं ध्वस्तदोषः पुमान कल्पनीयः । तथा च 'दोषाऽत्यन्ताऽभाववदा | त्मत्वाऽपेक्षया लघौ दोषध्वंस एव महत्पदप्रवृत्तिनिमित्तत्वकल्पनं न्याय्यमिति भावः । वस्तुतः पदप्रवृत्तिनिमित्तमात्रं न पदार्थाऽन्तरकल्पनक्षममिति द्रष्टव्यम् ।।८।। ध्वस्तदोषत्वे भगवतः समन्तभद्रोक्तं मानमनुवदति दोषाऽऽवरणयोर्हानिनिःशेषाऽस्त्यतिशायनात् । क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः२ ॥९॥ दोषेति । क्वचिदोषावरणयोनिःशेषा हानिरस्ति, अतिशायनात् = तारतम्यात्, यथा स्वहेतुभ्यः = मलक्षयहेतुभ्यः स्वर्णादेर्बहिरन्तश्च मलक्षयः । यद्यपि अत्र 'दोषाऽऽवरणे निःशेषहानिप्रतियोगिनी, तारतम्यवद्धानिप्रतियोगित्वादि'त्यनुमाने पक्षविवेचने बाधाऽसिद्धी न 'क्वचित्'पदग्रहणमात्रनिवत्यै । साध्याऽऽश्रयतया पृथक्कृतां व्यक्तिमनुपादाऽऽयापादनाच्च न दिङ्नागमतप्रवेशः । न च निःशेषहानिप्रतियोगिजातीयत्वस्य साध्यत्वे सम्प्रतिपन्नस्वर्णमलस्य दृष्टान्तत्वे च न कोऽपि दोष इति वाच्यम, निःशेषक्षीयमाणस्वर्णमलवृत्तिदोषाऽऽवरणसाधारणौपाधि१. मुद्रितप्रतौ 'दोषात्यन्ताभावादात्म....' इत्यशुद्धः पाठः । २. हस्तादर्श ‘र्बलक्षयः' इत्यशुद्धः पाठः । ३. हस्तादर्श '...पदग्रहग्रहण...' इत्यधिकः पाठः । ४. हस्तादर्श 'शोचि' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'स्वि' इत्यशुद्धः पाठः । , ।।५३। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy