________________
स्वगुणप्रागभावस्य स्वयोग्यतापरिणतिपर्यवसितत्वादिति भावः ।।६।।
नित्यनिर्दोषताऽभावान्महत्त्वं नेति दुर्वचः ।
नित्यनिर्दोषता यस्माद् घटादावपि वर्तते ।।७।। नित्येति । नित्यनिर्दोषताया अभावात् (= नित्यनिर्दोषताऽभावात्)महत्त्वं न प्रक्रमाद्वीतरागे इति दुर्वचः = दुष्टं वचनं, यस्माद् नित्यनिर्दोषता = दोषाऽत्यन्ताऽभाववत्त्वरूपा नित्यत्वे सतीयमेव वा घटादावपि वर्तते । आदिनाऽऽकाशादिग्रहः । ____ इत्थं च 'वीतरागो न महान्, नित्यनिर्दोषत्वाभावादि'त्यन्वयिनि घटादौ दृष्टान्ते साधनवैकल्यमुपदर्शितं भवति, व्यतिरेकिणि चेश्वरदृष्टान्ते नोभयवादिसम्मतत्वम् ।
वीतरागस्यैवाऽसिद्धौ परस्याऽऽश्रयाऽसिद्धिश्च, तत्सिद्धौ वा धर्मिग्राहकमानेन तन्महत्त्वसिद्धौ बाधश्चेति द्रष्टव्यम् ।।७।।
सात्मन्येव महत्त्वाङ्गमिति चेत्तत्र का प्रमा ।
पुमन्तरस्य कल्प्यत्वाद् ध्वस्तदोषो वरं पुमान् ।।८।। ___ सेति । सा = नित्यनिर्दोषता आत्मन्येव = आत्मनिष्ठैव महत्त्वाङ्गम् । इत्थं च नित्यनिर्दोषात्मत्वाभावस्य हेतुत्वान्न दृष्टान्ते साधनवैकल्यमिति भावः ।
अत्राऽऽह- इति चेत ? तत्र = आत्मनि नित्यनिर्दोषत्वे का प्रमा = किं प्रमाणम् ? १.हस्तादर्श 'च' इति पाठः । २.हस्ताद” 'द्रव्येष्टे' इत्यशुद्धः पाठः । ३.मुद्रितप्रतो । निर्दोषत्वाभा..' इत्यशुद्धः पाठः ।
।।।।५।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org