________________
औदयिकभावस्याऽपि विशिष्टस्य महत्त्वप्रयोजकत्वं व्यवस्थापयति
पुण्योदयभवैर्भावैर्मतं क्षायिकसङ्गतैः ।
महत्त्वं महनीयस्य बाह्यमाभ्यन्तरं तथा ।।४।। __पुण्येति । पुण्योदयभवैः = तीर्थकरनामकर्माद्युदयोत्पन्नैः भावैः = विशिष्टसंहननरूप-सत्त्वसंस्थानगतिप्रभृतिभिः क्षायिकसङ्गतैः = क्षायिकज्ञानादिमिलितैः महत्त्वं महनीयस्य = पूज्यस्य मतं बाह्यं तथाऽऽभ्यन्तरं प्रत्येकं विशिष्टमेव वा कथचिदुभयव्यपदेशभाक् । इत्थं च विशिष्टबाह्यसंपदोऽन्याऽसाधारणत्वान्नाऽतिप्रसञ्जत्वमिति भावः ।।४।।
बहिरभ्युदयाऽऽदर्शी भवत्यन्तर्गतो गुणः।
मणेः पटाऽऽवृतस्यापि बहिर्कोतिरुदञ्चति ।।५।। बहिरिति । व्यक्तः ।।५।। स्वभावभेदादपि कार्यैकलिङ्गकं महत्त्वमाह
भेदः प्रकृत्या रत्नस्य जात्यस्याऽजात्यतो यथा।
तथाऽर्वागपि देवस्य भेदोऽन्येभ्यः स्वभावतः।।६।। भेद इति । अर्वागपि = मिथ्यात्वादिदशायामपि ।
स्वभावत इति । अन्यथा स्वस्मिन्नन्यवृत्तिगुणाऽऽपत्तेः । न च प्रागभावाऽभावान्नेयमापत्तिः, १. हस्तादर्श '...गतइः' इत्यशुद्धः पाठः । २. 'संगत्व...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. हस्तादर्श 'बहिसुमुदया' इत्यशुद्धः पाठः ।
।।१।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org