SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Fhoto धर्मधर्मिसम्बन्धभेदेऽनवस्थानात् । तदभेदे च सहप्रयोगाद्यनुपपत्तेः । धर्मिग्राहकमानेन स्वतः सम्बद्धस्य सम्बन्धान्तरस्य कल्पनाऽपेक्षया तेनैव सिद्धस्य शबलस्य वस्तुनोऽभ्युपगमस्य न्याय्यत्वात् । तदनुभवेऽपि चैकान्तभ्रमस्य दोषप्राबल्यादुपपत्तेः । विशेषदर्शनेन च तस्य निवर्तयितुं शक्यत्वादिति दिक् । 'कुतर्का एव ध्वान्तानि तेषु सूर्यांशुः । तन्महत्त्वं (=कुतर्कध्वान्तसूर्यांशुमहत्त्वं), अवच्छेद्याऽवच्छेदकयोर्लिङ्गलिङ्गिनोर्वा स्याद्वादाऽऽश्रयणेन कथञ्चिदभेदात्' । यदभ्यधुः श्रीहरिभद्रसूरयः ।।२।। पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥३॥ पक्षपात इति । न मे = मम वीरे = श्रीवर्धमानस्वामिनि पक्षपातः = गुणाऽनालोचनपूर्व || एव रागः । कपिलादिषु च न मे द्वेषः । किन्तु यस्य वचनं युक्तिमत्तस्य परिग्रहः || = स्वीकारः कार्यः । इत्थं चात्राविसंवादिवचनत्वेनैव भगवतो महत्त्वमाचार्यैरभिप्रेतम ।।३।। ।।५ ।। १. मुद्रितप्रती 'कुतुर्का' इत्यशुद्धः पाठः । २. हस्तादर्श 'कथञ्चिद' इति त्रुटितः पाठः । ३. हस्तादर्श 'कापि...' इति पाठः । ४. मुद्रितप्रतौ 'भगवति' इति पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy