________________
भर में व
न च व्यक्तिविशेषविषयकत्वेन नाऽतिप्रसङ्ग इति शङकनीयं, प्रमेयत्वादिना महत्त्वप्रकारकज्ञानादपि 'फलापत्तेर्विशेषरूपेण महत्त्वप्रकारकत्वनिवेशस्याऽऽवश्यकत्वात् ।
अत एवाऽसाधावप्यालय-विहारादिमत्त्वेन साधुत्वबुद्धावपि विशेषाऽदर्शनदशायां न फला-ऽभाव इति तत्र तत्र व्यूत्पादितम् । ___ अव्यक्तसमाधिफलविशेषे तु विषयविशेषोऽपि निवेश्यः ।
*यदि चाऽऽलयविहारादिलिङगेन साधुत्वमनुमीयत एव, तदनुमितिप्रयोज्यवन्दनादिना च फलविशेष इति विभाव्यते, तदा भगवत्यपि विशिष्टरूपेण महत्त्वाऽनुमित्यनन्तरमेव स्मरणादिना फलोदयाऽविशेषाद् ‘महत्त्वं ने'त्यनन्तर मनुमेयम्' इत्यध्याहारान्नाऽनुपपत्तिः, स्वेतरनिष्ठाऽत्यन्ताभावप्रतियोगिगुणवत्त्वरूपस्य महत्त्वस्य बाह्यसम्पदाऽनुमातुमशक्यत्वात्, मायाविष्वेव व्यभिचारात् ।।१।।
स्वामिनो वचनं यत्तु संवादि न्यायसङ्गतम् ।
कुतर्कध्वान्तसूर्यांशुमहत्त्वं तद्यदभ्यधुः ।।२।। स्वामिन इति । यत्तु स्वामिनः = वीतरागस्य वचनं संवादि = समर्थप्रवृत्तिजनक न्यायसगतं = स्याद्वादमुद्रामनतिक्रान्तं, एकान्तस्य तत्त्वतोऽन्याय्यत्वात । १. हस्तादर्श 'फलाथात्र' इत्यशुद्धः पाठः । २. हस्तादर्श 'महद...' इत्यशुद्धः पाठः । ३. 'आत्मवि...' इत्यशुद्धः पाठो हस्तादर्श । ४. हस्तादर्श 'यदि चालय यदि चालय' इति द्विरुक्तः पाठः । ५. हस्तादर्श 'वन्दनादि' इति पाठः । ६. हस्तादर्श 'भ्याधात्' इति पाठः । परं व्याख्यानुसारेण न स सङ्गच्छते ।
॥४९॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org