________________
इत्थं मार्गस्थिताचारमनुसृत्य प्रवृत्तया ।
मार्गदृष्ट्यैव लभ्यन्ते परमानन्दसम्पदः ॥३२॥ 'साधुरित्याद्यारभ्य चतुःश्लोकी सुगमा ।।२९।।३० ।।३१।।३२।।
।। इति मार्गद्वात्रिंशिका ।।३।।
॥ अथ जिनमहत्त्वद्वात्रिंशिका ।।४।। मार्गविवेचनाऽनन्तरं तद्देशकस्य भगवतो माहात्म्यं व्यवस्थाप्यते
वप्रत्रय-ध्वज-च्छत्र-चक्र-चामरसम्पदा।
महत्त्वं न विभोस्तादृङ्मायाविष्वपि सम्भवात् ॥१॥ वप्रेति । तादृक = प्रेक्षावच्चमत्कारजनकं, मायाविष्वपि = ऐन्द्रजालिकेष्वपि । यदि हिं बाह्यसम्पदैव महत्त्वबुद्धिर्धर्मजननी स्यात्तदा मायाविष्वपि सा स्यादित्यर्थः ।
तदिदमुक्तं समन्तभद्रेणापि
देवागम-नभोयान-चामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।। (आप्तमीमांसा.१) इति ।
१. मुद्रितप्रतौ प्रतिश्लोकं 'साधुरिति व्यक्तः । गुणीति व्यक्तः । ते चेति व्यक्तः। इत्थमिति व्यक्तः।' २. विभुत्वं' | इति हस्तलिखितप्रतिषु मुद्रितप्रतिषु च। वृत्तिपाठात् हस्तादर्शविशेषाच्च 'महत्त्वं' इति मूलपाठो निश्चीयते।
।।।।४८।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org