SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ बीओ सावगधम्मो तइओ संविग्गपक्खपहो ।। (उपदेशमाला ५१९) योगाख्यो मार्गः संविग्नपाक्षिकाणां नासम्भवी, मैत्र्यादिसमन्वितवृत्तादिमत्त्वेनाध्यात्मादिप्रवृत्त्यबाधात् । 'अविकल्पतथाकाराविषयत्वेन नैतद्धर्मो मार्गः, 'कप्पाकप्पे परिनिट्ठिअस्स ठाणेसु पंचसु ठिअस्स संजमतवड्ढगस्स उ अविगप्पेण तहक्कारो ।।(आवश्यकनियुक्ति६८८) इति वचनात् साधुवचन एवाविकल्पेन तथाकारश्रवणादिति चेत् ? न, एतद्वचनबलादन्यत्र लभ्यमानस्य विकल्पस्य व्यवस्थितत्वेन व्याख्यानात्। ___ व्यवस्था चेयं-संविग्नपाक्षिकस्य वचनेऽविकल्पेनैव तथाकारोऽन्यस्य तु 'विकल्पेनैवेति । विवेचितं चेदं सामाचारीप्रकरणेऽस्माभिः (गाथा ३२) ।।२८।। "साधुः श्राखश्च संविग्नपक्षी शिवपथास्त्रयः। शेषा भवपथा रोहिद्रव्यलिङ्गिकुलिङ्गिनः।।२९।। गुणी च गुणरागी च गुणद्वेषी च साधुषु । श्रूयन्ते व्यक्तमुत्कृष्टमध्यमाधमबुद्धयः ।।३०।। ते च चारित्र-सम्यक्त्व-मिथ्यादर्शनभूमयः। अतो द्वयोः प्रकृत्यैव वर्तितव्यं यथाबलम् ॥३१॥ १. कल्पाकल्पे परिनिष्ठितस्य स्थानेषु पञ्चसु स्थितस्य । संयमतपआढ्यकस्य त्वविकल्पेन तथाकारः ।। २.मुद्रितप्रतौ 'संजमतववट्टग...' इति पाठः। ३. हस्तादर्श 'विकल्पेनेवे...' इत्यशुद्धः पाठः। ४. हस्तादर्श इत आरभ्य चतुःश्लोकी नास्ति। ॥४७॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy