________________
मा
원과 백의
शि
का
३/२८
Jain Education International
तेषामेकैव' बालता भवत्याचारहीनतया न तु द्वितीयापि । ये तु हीना अपि वदन्ति ‘एवंभूत एवाचारोऽस्ति योऽस्माभिरनुष्ठीयते, साम्प्रतं दुःषमानुभावेन' बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी, नोत्सर्गावसरः' इति, तेषां तु द्वितीयापि बालता बलादापतति, गुणवदोषानुवादात् । यदागमः- सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बितिआ मंदस्स बालया' (आचाराङ्ग- ६/४/१८६) । तथा 'मार्गमेक आख्याता न चोञ्छजीवी' त्यपि श्रुतिरस्ति । तदुक्तं स्थानाङ्गे - आघाइत्ता ( ? आघवतिता ) णामं एगे णो उंछजीवी (उंछजीविसंपन्ने ? ) ' ( स्था. ४/४/३४४ ) इति ।। २७ ।। असंयते संयतत्वं मन्यमाने च पापता ।
भणिता तेन मार्गोऽयं तृतीयोऽप्यवशिष्यते ॥ २८ ॥
असंयत इति । असंयते संयतत्वं मन्यमाने च पापता भणिता, 'असंजए संजयलप्पमाणे पावसमणुत्ति वुच्चइ' (उत्तरा . १७/६ ) त्ति पापश्रमणीयाध्ययनपाठात्, असंयते यथावस्थितवक्तरि पापत्वानुक्तेः । तेन कारणेन अयं = संविग्नपक्षरूपस्तृतीयोऽपि मार्गोऽवशिष्यते, साधुश्राद्धयोरिव संविग्नपाक्षिकस्याप्याचारेणाऽविसंवादिप्रवृत्तिसम्भवात् । तदुक्तं
" सावज्जजोगपरिवज्जणाइ सव्वुत्तमो अ जइधम्म ।
१. मुद्रितप्रतौ 'मेकैकबा...' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' नुभवेन' इति पाठः । ३. शीलवन्त उपशान्ताः सङ्ख्यया गच्छन्तः ‘अशीला' अनुवदतो द्वितीया मन्दस्य बालता ।। १८६ ।। ४. आख्यायकः नाम एको नोञ्छजीविकासंपन्नः । ५. सावद्ययोगपरिवर्जनातः सर्वोत्तमश्च यतिधर्मः । द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथः ।
For Private & Personal Use Only
।।४६।।
www.jainelibrary.org