________________
द्रव्यत्वेऽपीति । तदावश्यकस्य भावसाध्वपेक्षया द्रव्यत्वेऽपि प्रधानत्वाद् = इच्छाद्यतिशयेन भावकारणत्वाद्, द्रव्यपदस्य क्वचिदप्रधानार्थकत्वेन क्वचिच्च कारणार्थकत्वेनानुयोगद्वारवृत्तौ व्यवस्थापनात्। तथाकल्पात् = तथाऽऽचारात् तद् = आवश्यकं तेषां अक्षतं, यतो मार्गप्रवेशाय मिथ्यादृशामपि तदावश्यकं मतं = गीतार्थैरङ्गीकृतं, अभ्यासरूपत्वात्, अस्खलितत्वादिगुणगर्भतया द्रव्यत्वोपवर्णनस्यैतदर्थद्योतकत्वाच्च ।।२५ ।।
मार्गभेदस्तु यः कश्चिन्निजमत्या विकल्प्यते ।
स तु सुन्दरबुद्ध्यापि क्रियमाणो न सुन्दरः ।।२६।। मार्गेति । व्यक्तः ।।२६।।
निवर्तमाना अप्येके वदन्त्याचारगोचरम् ।
आख्याता मार्गमप्येको नोञ्छजीवीति च श्रुतिः ॥२७।। निवर्तमाना इति । एके संयमाद् निवर्तमाना अप्याचारगोचरं यथावस्थितं वदन्ति 'वयमेवं कर्तुमसहिष्णवः,मार्गः पुनरित्थम्भूत एवे'ति। • यद् आचारसूत्रं नियट्टमाणा' वेगे आयारगोअरमाइक्खंति' (आचा.६/४/१८९)। अत्र संयमाल्लिङगाद्वा निवर्तमानाः, 'वा' शब्दादनिवर्तमानाश्च लभ्यन्ते, उभयथाप्यवसीदन्त एव योजिता। यथास्थिताचारोक्त्या हि १. मुद्रितप्रती 'वयमेव' इति पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । २. निवर्तमाना वैके आचारगोचरमाचक्षते ।
||४५।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org